________________
સંપાદકીય यच्च सचूलिकाकस्येति विशेषणं तत् तस्य चूलिकासत्ताप्रतिपादनार्थम् , न तु पदप्रमाणाभिधानार्थम् । यतोऽवाचि नन्दीटीकाकृता-"अट्ठारसपयसहस्साणि पुण पढमसुयक्खंधस्स नवबंभचेरमइयस्स पमाणं, विचित्ताणि य सुत्ताणि गुरूवएसओ तेसिं अत्थो जाणियवो त्ति" [नन्दीहरिभद्रीया वृत्ति पत्र ७६]। पदसहस्राणीह यत्रार्थोपलब्धिस्तत् पदम् । ‘पदाग्रेण' इति पदपरिमाणेन।
(सभवायांग सभ० १८, पत्र३५-38) आयारस्स णं भगवओ सचूलियागस्स पंचासीई उद्देसणकाला प०।
टीका -तत्र 'आचारस्य' प्रथमाङ्गस्य नवाध्ययनात्मकप्रथमश्रुतस्कन्धरूपस्य 'सचूलियागस्स' ति द्वितीये हि तस्य श्रुतस्कन्धे पञ्च चूलिकाः तासु च पञ्चमी निशीथाख्येह न गृह्यते मिन्नप्रस्थानरूपत्वात् तस्याः, तदन्याश्चतस्रः, तासु च प्रथम-द्वितीये सप्तसप्ताध्ययनात्मिके तृतीयचतुर्थ्यावेकैकाध्ययनात्मिके, तदेवं सह चूलिकाभिर्वर्तत इति सचूलिकाकस्तस्य पञ्चाशीतिरुद्देशनकाला भवन्तीति, प्रत्यध्ययनं उद्देशकानामेतावत्सङ्ख्यत्वात् , तथाहि -प्रथमश्रुतस्कन्धे नवस्वध्ययनेषु क्रमेण सप्त ७ षट् १३ चत्वारः १७ चत्वारः २१ षट् २७ पञ्च ३२ अष्ट ४० चत्वारः ४४ सप्त ५१ चेति, द्वितीयश्रुतस्कन्धे तु प्रथमचूलायां सप्तस्वध्ययनेषु क्रमेण एकादश ६२ त्रयः ६५ त्रयः ६८ चतुर्पु द्वौ द्वौ ७६ द्वितीयायां सप्तैकसराण्यध्ययनानि ८३ एवं तृतीयैकाध्ययनात्मिका ८४ एवं चतुर्थ्यपीति ८५ सर्वमीलने पञ्चाशीतिरिति ।
(सभवायां सम० ८५, ५५ ८२) तिण्हं गणिपिडगाणं आयारचूलियावजाणं सत्तावन्नं अज्झयणा प०, तं०-आयारे सूयगडे ठाणे ।
टीका- 'गणिपिडगाणं' ति गणिनः-आचार्यस्य पिटकानीव पिटका नि-सर्वस्वभाजनानीति गणिपिटकानि तेषाम् । आचारस्य -श्रुतस्कन्धद्वयरूपस्य प्रथमाङ्गस्य चूलिका - सर्वान्तिममध्ययनं विमुक्त्यभिधानमाचारचूलिका तर्जानाम् । तत्राचारे प्रथमश्रुतस्कन्धे नवाध्ययनानि, द्वितीये षोडश, निशीथाध्ययनस्य प्रस्थानान्तरत्वेनेहानाश्रयणात्, षोडशानां मध्ये एकस्य आचारचूलिकेति परिहृतत्वात् , शेषाणि पञ्चदश, सूत्रकृते द्वितीयाने प्रथमश्रुतस्कन्धे षोडश, द्वितीये सप्त, स्थानाङ्गे दशेत्येवं सप्तपञ्चाशदिति ।
(सभवायांग सभ० ५७, ५त्र ७३) से एवंणाया एवंविण्णाया एवं चरणकरणपरूवणया आघविजंति पण्णविजंति परूविजति दंसिजंति निदंसिर्जति उवदंसिर्जति ।
टीका -'से एवं' इत्यादि स इत्याचाराङ्गग्राहको गृह्यते, ‘एवंआय' ति अस्मिन् भावतः सम्यगधीते सत्येवमात्मा भवति, तदुक्तक्रियापरिणामाव्यतिरेकात् स एव भवतीत्यर्थः । इदं च सूत्रं पुस्तकेषु न दृष्टं नन्द्यां तु दृश्यते इतीह व्याख्यातमिति ।
(सभवायांग सूत्र १३१, ५२ १०७, १०८) સૂત્ર ૮૮
तेवीसं सूयगडज्झयणा प०, तं०-समए १ वेतालिए २ उवसम्गपरिण्णा ३ थीपरिण्णा ४ नरयविभत्ती ५ महावीरथुई ६ कुसीलपरिभासिए ७ विरिए ८ धम्मे ९ समाही १० मग्गे ११ समोसरणे १२ आहत्तहिए १३ गंथे १४ जमईए १५ गाथा १६ पुंडरीए १७ किरियाठाणा १८ आहारपरिणा १९ अपच्चक्खाण किरिया २० अणगारसुयं २१ अद्दइज २२ णालंदाइज २३ ।
(सभवायां सभ० २७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org