________________
6
न्यायावतारसूत्रवार्तिकवृत्तौ
[ १. सामान्यल० परि०
६१. एवमीश्वरस्य प्रामाण्यं निरस्य सांख्याभिमतस्य प्रकृतिपुरुषान्तरज्ञानस्य प्रामाण्यं श्रस्यन्नाह - प्रकृत्यन्तरविज्ञानम् - इत्यादि ।
प्रकृत्यन्तरविज्ञानं पुंसो नित्यमथान्यथा ॥ ८ ॥ नित्यत्वे सर्वदा मोक्षोऽनित्यत्वे न तदुद्भवः ।
२. ते हि एवं मन्यन्ते केवलानन्दभोक्तृखरूपो हि पुरुषः, प्रकृतिश्चाचिद्वात्मिका । कथमसौ तां भुजे ? । केवलमज्ञानतमश्छन्नः प्रकृतिसाध्यमेवात्मगतं मन्यमानः न्तरविशा- तत्सुखं दुःखं चोपभुत इति । यदा तु ज्ञानमस्य भवेति 'दुःखहेतुरियम्, न ममानपरीक्षा । नया सह 'संगो युक्त:' इति तदा किमिति तदुपार्जितं कर्मफलमुपभुते ? । सापि
प्रकृत्य •
४४
'विज्ञातस्वरूपाऽहं न मदीयैकर्मफलमनेन भोक्तव्यम्' इति बुद्धा न किंचिदपि करोति । 10 कुष्ठिनीव विशीतस्वरूपा दूरादपसर्पति । अतः केवलज्ञानं मोक्षायालमिति ।
६३. अत्रेदमभिधीयते - कस्य तज्ज्ञानं किं प्रकृतेरथात्मन इति ? । न तावत् प्रकृतेः, अचिद्रूपत्वात्, अनभ्युपगमार्थं । अत एव 'निर्माताऽहमनेन' इति अस्याः याचितकमण्डनम् । अथात्मनः, तदपि किं भिन्नमथाभिन्नम् १ । यद्यभिन्नम्, तदा तत्स्वरूपवत् नित्यं स्यात् । तत आदित एव मुक्तो भवेत् । अत आह 'सर्वदा मोक्षः' इति । अथ भिन्नम् ; मिन्नमपि 1 किं नित्यमथानित्यम् १, नित्यमपि संबद्धम्, असंबद्धं वा ? । असंबद्धे सर्वस्य स्यात् । ततश्च न कस्यापि संसारः । संबन्धोऽपि न नित्ययोः परस्परमनुपकार्योपकारकयोः स्यात् । संबन्धेऽपि वीं सदा मुक्तिरिति । अनित्यमपि किं जन्यमजन्यं वा ? । तत्रानित्यमजन्यं चेति व्याहतम् । अव्याहतावपि सर्वस्य स्यात् । जन्यमपि किं प्रकृतिवियुक्तात्मजन्यम्, किं वा तत्सहितजन्यमिति । प्रथमपक्षे इतरेतराश्रयत्वम् । तथा हि- सति ज्ञाने प्रकृतिवियोग:, 20 सति वियोगे तब्ज्ञानमिति । तत्सहितजन्यत्वे किं तद्वियोगेन १ । सर्वदा सर्वेषां वै मुक्तिः स्यात् । ननूक्तम् 'अविज्ञानतमश्छन्नः' इति तमोविर्गमादस्य विज्ञानमुपजायत इति ।
।
४. अथ किमिदं तमः १ । रागादय इति चेत्-न, तेषां प्रकृतिधर्मत्वात् । न साम्यावस्थायां तदुत्तरकार्यभाविनः प्रकृतावपि ते सन्ति । शक्तिरूपतया सन्तीति चेत्; शक्तिरपि न कार्यकार्य करोति । किन्तु स्वकार्यमेव करोति । न हि क्षीरे दधिशक्तिः दधि23 साध्यं कार्य करोति । किन्तु दृध्येव करोति । दधि पश्चात् स्वकार्य करोति । पश्चाद्भवन्तु, तथापि रागादयः सिद्धा इति चेत्; न, प्रधानस्य विकारजेनने सहकारिकारणाभावेन तेषां पश्चादप्यसिद्धेः ।
६५. सन्तु वाऽविद्यारागादयः, ते मुक्तात्मनः किं न तमो भवन्ति । अधिकारिण एव ते भवन्ति, न मुक्तात्मन इति चेत्; किमिदम् अधिकारित्वम् ? । " योग्यत्वमिति श्रूमः । " तथा हि - प्रकृतिरचेतना भोग्यरूपा । सा भोक्तारमपेक्षते । पुरुषोऽपि चेतनो भोक्ता च । स
९. यदा ज्ञान मु० । २. भवेत् ब० । ३. संयोगः अ० । ४. पाहं मदीयं मु० । ५. मदीयं कर्म° अ० । ६. नीव निर्ज्ञात क० । ७. अदम मु० । ८. गमाद्वा मु० । ९. मपि किं सं° मु० । १०. sपि सदा अ० । ११. सर्वेषां मुक्तिः अ० । १२. तमो विरामाद क० । तमो विरामेऽवश्यं विज्ञा १३. न साम्या° अ० मु० । १४. कार्यक० । १५. विकाराज मु० । १६. इतः आरभ्य 'योग्यतालक्षणः' इतिपर्यन्तः पाठः मु० क० प्रत्योः 'सन्ति' [ पृ० ४४ पं० ....... ] इत्यनन्तरं वर्तते सं० ।
मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org