________________
२४
न्यायावतारसूत्रवार्तिकवृत्तौ [१. सामान्यल० परि० इति मरणं नोदपावि, किन्तु 'इदमेव रजतम्' इति दर्शन-स्मरणयोसद्विषययोकत्वप्रतिपत्तिः वलमोषः।
६१४. ननु कि दर्शनविषयस्य स्मृतिविषये आरोपः, किंवा स्मृतेः दर्शनविषय इति । का प्रथमपो यत्र यद् आरोप्यते तत्र तत्प्रतिभासो भवति । यथा मरीचिकासु जलमारोप्यमाणं मरीचिकादेशे कास्ति । ततः स्मर्यमाणदेशे शुक्तिप्रतिभासः स्यात्, नेदंतया रजतस्पेति । द्वितीयेऽपि पक्षे स्मर्यमाणस्य अस्पष्टत्वात् परोक्षत्वाद् इदम्' इति दर्शनं कथं स्पष्टतयाऽपरोक्षतया प्रतिभासेत ।।
६१५. किञ्च- तयोरैक्यं केन प्रतीयते ? । किं ताभ्यामेव, अथान्येन ? । तत्र अखसंवेदनाभ्यां दर्शनस्मरणाभ्याम् आत्मापि न प्रतीयते, कुत एव अन्येन सैहेक्यमिति ? । "स्वसंवेदनाभ्यामपि स्वात्मनिममाभ्यां न द्वयस्यैक्यप्रतीतिः । अपि च-यदि द्वयं वेद्यते, कायमैक्यम् ?; अथ न वेधते; कथमैक्यम् ? । अथ पूर्व द्वयं प्रतीत्य तदेवकत्वेन प्रत्येति । न, संवेदनस्य क्षणिकत्वेन एतावन्तं कालमनवस्थानात् । तत्तादात्म्येन च खेसंवेदनमपि विभिन्नमिति कथं पूर्वापरयोरैक्यं प्रतिपद्येत ? । भ्रान्तत्वात् तथाप्रत्येति' इति चेत् न, बामख्यातित्वप्रसङ्गात् । तत्र च वक्ष्यामः । अथ अन्यत् । तब पूर्वदर्शनाहितसंस्कारस ॥ उत्तरदर्शनप्रबोधितस्मृतिबीजस्य विकल्पकं विज्ञानं तयोरसन्तमभेदं ख्यापयति । तर्हि असल्यातिः स्यात् , न स्मृतिप्रमोष इति । तन्न स्मृतिप्रमोषोऽपि मिथ्यात्वम् ।
६१६. अलौकिकत्वमिति चेत् ; किमिदं अलौकिकत्वम् ? । किम् अन्यरूपत्वम्, अथ अन्यक्रियाकारित्वम् , किं वा अन्यकारणजन्यत्वम्, आहोश्विदजन्यत्वमिति ? । सत्र न वावद् अन्यत्पत्वम् । यदेव हि सत्यस्य रूपं प्रतिभाति, तदेवासत्याभिमतस्यापि । न चान्य• क्रियाकारित्वम् , अदर्शनात् । अन्यजन्यत्वे; सर्वत्र नियमो न स्यात् । लौकिकेष्वेव स इति
चेत्, इतरेतरामयत्वम् । सत्यनियमेऽलौकिकत्वम् , सति अलौकिकत्वेऽनियम इति । अजन्यत्वे नित्यं सस्वमसत्त्वं वा भवेत् । ततश्च सत्यज्ञानविषयोऽपि स्यात् । तन्नालौकिकत्वमिति ।
६१७. भात्मख्यातिरिति चेत् ; तत्किं परं ब्रह्म, आहोश्विद् विज्ञानमिति ? । तत्र यदि सद् बद्वयं तदा द्वयदर्शननिबन्धना कथं तंत्र भ्रान्तिः ? । अन्तरुपप्लवादिति चेत्, तत्रापि यदि खल्पप्रतिभासः कथं भ्रान्तिः ? । अथ अन्यरूपप्रतिभासः, कथमात्मख्यातिः । अथ आत्मरूपस्व प्रान्त्या अन्यरूपत्वेन अवभासनम् । ननु इतरेतराश्रयत्वम् । तथाहि-अन्यखेलपमवमासन्ती भ्रान्तिः, भान्याऽन्यल्पावभासनमिति ।
६१८. अथ अविद्यया भ्रान्तं वेदनं जन्यते । कथं नित्यत्वं ब्रमणः ? । न च तव्यतिरेकेण सदस्ति, प्रासग्राहकाकारयोरनात्मरूपत्वात् । आत्मरूपत्वे वा तयोरपि सत्यत्वम्, आत्मनो वाऽसत्यत्वमिति । अथ संवेदनमात्रं सत्यमात्मनो रूपम् । तथाप्रतिभासस्त्वविद्यावशादिति ।
१. शेऽवभासते मु०। २. स्वरूपम् ] अ-टि०। ३. अन्येन खात्मैक्यम् मु०। ४. खात्मनि निममा अ० ब०। ५.च संवेदन ब०क०मु०। ६. 'त्येति चेत् क० मुं०। ७. अन्यस्य अ-टि०। ८. रित्वमिति, कि अ० मु०। ९. यसमिति सत्य अ०। १०. तव मु०। ११. अतद्रूपभ्रमादिति मु०। १२. अन्यरूपमव मु०ब०। १३. मवभासयन्ती क० । भवभासयतीति भ्रा° मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org