SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २४२ नन्दनमुन्याराधिता 2700. एक उत्पद्यते जन्तुरेक एव विपद्यते । सुखान्यनुभवत्येको, दुःखान्यपि स एव हि ॥ २२॥ 2701. अन्यद् वपुरिदं तावदन्यद् धान्य-धनादिकम् । बन्धवोऽन्येऽन्यश्च जीवो वृथा मुह्यति बालिशः ॥ २३॥ 2702. वसा-रुधिर-मांसाऽस्थि-यकृद्-विण्मूत्रपूरिते । वपुष्यशुचिनिलये मूच्छी कुर्वीत कः सुधीः १ ॥ २४॥ 2703. अक्क्रयात्तवेश्मेव मोक्तव्यमचिरादपि । लालितं पालितं वाऽपि विनश्वरमिदं वपुः ॥२५॥ 2704. धीरेण कातरेणापि मर्तव्यं खलु देहिना । यन्नियेत तथा धीमान् न म्रियेत यथा पुनः॥२६॥ 2705. अर्हन्तो मम शरणं, शरणं सिद्ध-साधवः । उदीरितः केवलिभिधर्मः शरणमुच्चकैः ॥ २७॥ 2706. जिनधर्मो मम माता, गुरुस्तातोऽथ सोदराः। साधवः साधर्मिकाश्च बन्धवोऽन्यत् तु जालवत् ॥२८॥ 2707. ऋषभादीस्तीर्थकरान् नमस्याम्यखिलानपि । भरतैरावत-विदेहार्हतोऽपि नमाम्यहम् ॥ २९॥ 2708. तीर्थकृद्भयो नमस्कारो देहभाजां भवच्छिदे । भवति क्रियमाणः सन् बोधिलाभाय चोचकैः ॥३०॥ 2709. सिद्धेभ्यश्च नमस्कारं भगवद्भयः करोम्यहम् । कर्मेन्धोऽदाहि यैानाग्निना भवसहस्रजम् ॥ ३१ ॥ 2710. आचार्येभ्यः पञ्चविधाऽऽचारेभ्यश्च नमो नमः । यैर्धार्यते प्रवचनं भवच्छेदे सदोद्यतैः ॥ ३२॥ 2711. श्रुतं बिभ्रति ये सर्व शिष्येभ्यो व्याहरन्ति च । नमस्तेभ्यो महात्मभ्य उपाध्यायेभ्य उच्चकैः ॥ ३३ ॥ 2712. शीलव्रतसनाभ्यः साधुभ्यश्च नमो नमः । भवलक्षसन्निबद्धं पापं निर्नाशयन्ति ये ॥३४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001045
Book TitlePainnay suttai Part 2
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1987
Total Pages427
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_anykaalin, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy