SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ ७. आराधना 2687. पुत्रे कलत्रे मित्रे च बन्धौ धान्ये धने गृहे । अन्येष्वपि ममत्वं यत् तत् सर्वं व्युत्सृजाम्यहम् ॥ ९ ॥ 2688. इन्द्रियैरभिभूतेन य आहारश्चतुर्विधः । मया रात्रावुपाभोजि निन्दामि तमपि त्रिधा ॥ १० ॥ 2689. क्रोधो मानो माया लोभो रागो द्वेषः कलिस्तथा । पैशुन्यं परनिर्वादोऽभ्याख्यानमपरं च यत् ॥ ११ ॥ 2690. चारित्राचारविषयं दुष्टमाचरितं मया । तदहं त्रिविधेनापि व्युत्सृजामि समन्ततः ॥ १२ ॥ 2691. यस्तपःस्वतिचारोऽभून्मे बाह्याभ्यन्तरेषु च । त्रिविधं त्रिविधेनापि निन्दामि तमहं खलु ॥ १३ ॥ 2692. धर्मानुष्ठानविषयं यद् वीर्यं गोपितं मया । वीर्या चारातिचारं च निन्दामि तमपि त्रिधा ॥ १४ ॥ 2693. हतो दुरुक्तश्च मया यो, यस्याऽहारि किञ्चन । यस्यापाकारि किञ्चिद्वा मम क्षाम्यतु सोऽखिलः ॥ १५ ॥ 2694. यश्च मित्रममित्रो वा स्वजनोऽरिजनोऽपि च । सर्वः क्षाम्यतु मे सर्वं सर्वेष्वपि समोऽस्म्यहम् ॥ १६॥ 2695. तिर्यक्त्वे सति तिर्यञ्चो, नारकत्वे च नारकाः । अमरा अमरत्वे च, मानुषत्वे च मानुषाः ॥ १७ ॥ 2696. ये मया स्थापिता दुःखे सर्वे क्षाम्यन्तु ते मम । क्षाम्याम्यहमपि तेषां, मैत्री सर्वेषु मे खलु ॥ १८ ॥ 2697. जीवितं यौवनं लक्ष्मी रूपं प्रियसमागमः । चलं सर्वमिदं वात्यानार्तिताब्धितरङ्गवत् ॥ १९ ॥ 2698. व्याधि- जन्म-जरा-मृत्युग्रस्तानां प्राणिनामिह । विना जिनोदितं धर्मं शरणं कोऽपि नापरः ॥ २० ॥ 2699. सर्वेऽपि जीवाः स्वजना जाताः परजनाश्च ते । विदधीत प्रतिबन्धं तेषु को हि मनागपि १ ॥ २१ ॥ पा. १६ Jain Education International For Private & Personal Use Only २४१ www.jainelibrary.org
SR No.001045
Book TitlePainnay suttai Part 2
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1987
Total Pages427
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_anykaalin, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy