SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ नन्दनमुन्याराधिता आराधना 2679. स निष्कलङ्गं श्रामण्यं चरित्वा मूलतोऽपि हि । आयुःपर्यन्तसमये व्यधादाराधनामिति ॥१॥ 2680. ज्ञानाचारोऽष्टधा प्रोक्तो यः काल-विनयादिकः । तत्र मे कोऽप्यतीचारो योऽभून्निन्दामि तं त्रिधा ॥२॥ 2681. यः प्रोक्तो दर्शनाचारोऽष्टधा निःशङ्कितादिकः । तत्र मे योऽतिचारोऽभूत् त्रिधाऽपि व्युत्सृजामि तम् ॥३॥ 2682. या कृता प्राणिनां हिंसा सूक्ष्मा वा बादराऽपि वा । मोहाद् वा लोभतो वाऽपि व्युत्सृजामि त्रिधाऽपि ताम् ॥ ४॥ 2683. हास्य-भी-क्रोध-लोभायैर्यन्मृषा भाषितं मया । तत् सर्वमपि निन्दामि प्रायश्चित्तं चरामि च ॥५॥ 2684. अल्पं भूरि च यत् क्वाऽपि परद्रव्यमदत्तकम् । आत्तं रागादथ द्वेषात् तत् सर्व व्युत्सृजाम्यहम् ॥६॥ 2685. तैरश्चं मानुषं दिव्यं मैथुनं मयका पुरा । यत् कृतं त्रिविधेनापि त्रिविधं व्युत्सृजामि तत् ॥ ७॥ 2686. बहुधा यो धन-धान्य-पश्वादीनां परिग्रहः । लोभदोषान्मयाऽकारि व्युत्सृजामि त्रिधाऽपि तम् ॥ ८॥ १. स्य-भी-लोभ-क्रोधाद्यै त्रिषष्टिशलाकापुरुषचरितदशमपर्वप्रथमसर्गे श्लो० २३४ ।। २४० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001045
Book TitlePainnay suttai Part 2
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1987
Total Pages427
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_anykaalin, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy