________________
१८
श्री सिद्धाचलमण्डन-श्री ऋषभदेवस्वामिने नमः । श्री शान्तिनाथस्वामिने नमः । श्री शंखेश्वरपार्श्वनाथाय नमः । श्री नाकोडापार्श्वनाथाय नमः । श्री नाकोडाभैरववीराय नमः ।
श्री महावीरस्वामिने नमः । श्री गौतमस्वामिने नमः । पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्मेभ्यो नमः । पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादपद्येभ्यो नमः । पूज्यपादसद्गुरुदेवमुनिराजश्री भुवनविजयजीपादपद्येभ्यो नमः ।
आमुखम् । अनन्तोपकारिणां परमकृपालूनां जिनेश्वराणां परमकृपया परमोपकारिणां पितृचरणानां सद्गुरुदेवानां पूज्यपाद मुनिराजश्री भुवनविजयजीमहाराजानां च परमकृपया साहाय्येन च सम्पन्न पञ्चमगणधरदेवश्री सुधर्मस्वामिपरम्परयाऽऽयातस्य श्री स्थानाङ्गसूत्रस्य पू.आ.भ.श्री अभयदेवसूरिविरचितया वृत्त्या समलङ्कृतं सप्तमा-ऽष्टम-नवम-दशमाध्ययनात्मकं तृतीयं विभागं जैनागमरसिकानां पुरतो विन्यस्यन्तो वयमद्यामन्दमानन्दमनुभवामः ।
यदत्र वक्तव्यं तत् श्रीमहावीरविद्यालयेन विक्रमसंवत् २०४१ तमे (ई.स.१९८५) वर्षे जैन-आगम-ग्रन्थमालायां ग्रन्थाङ्क ३ रूपेण प्रकाशितस्य मूलमात्रस्य स्थानाङ्गसूत्रस्य गूर्जरभाषानिबद्धायां प्रस्तावनायां टिप्पणेषु परिशिष्टेषु तथा सटीकस्यास्य प्रथम-द्वितीयतृतीयविभागानां गूर्जरभाषानिबद्धायां प्रस्तावनायां परिशिष्टादिषु चोक्तप्रायं तत एवावगन्तव्यम् । यदवशिष्टं तत् किमपि सटीकस्य समवायाङ्गस्य प्रस्तावनायां वक्ष्यते ।।
___ अत्र नव परिशिष्टानि योजितानि सन्ति । तत्र प्रथमे परिशिष्टे स्थानाङ्गसूत्रान्तर्गतानां विशिष्टशब्दानां सूचिः, द्वितीये परिशिष्टे स्थानाङ्गसूत्रान्तर्गतानां गाथार्धानामकारादिक्रमेण सूचिः, तृतीये परिशिष्टे तुलनाद्यात्मकानि विवरणात्मकानि च टिप्पणानि, चतुर्थे परिशिष्टे तृतीये विभागे स्थानाङ्गटीकायामुद्धृतानां साक्षिपाठानां पृष्ठक्रमेण सूचिः, पञ्चमे परिशिष्टे प्रथम-द्वितीयतृतीयविभागेषु स्थानाङ्गटीकायामुद्भूतानां सर्वेषामपि साक्षिपाठानामकारादिक्रमेण सूचिः, षष्ठे परिशिष्टे स्थानाङ्गटीकायां निर्दिष्टानां तीर्थकृदादि-ग्रन्थ-ग्रन्थकृदादि-ग्राम-नगर-देशादीनां विशेषनाम्नां सूचिः, सप्तमे परिशिष्टे सटीकस्थानाङ्गसूत्र-संशोधनसम्पादनोपयुक्तानां ग्रन्थादीनां सङ्केतादीनां सूचिः- इत्येवं सप्तसु परिशिष्टेषु बहुविधं सूच्यादिकं वर्तते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org