________________
तृतीयं परिशिष्टम्- टिप्पनानि
१७५ जीवस्य या सा प्रथमिका दशा दशवर्षप्रमाणावस्था तत्थ त्ति तस्यां प्रथमदशायां प्रायेण सुखं दुःखं वा नेति नास्ति, तथाऽऽत्मपरेषां सुखदुःखं नैव जानन्ति बालका: जातिस्मरणादिज्ञानविकला इति। ___ बीईयं च दसं पत्तो, नाणाकीलाहिं कीडइ । न य से कामभोगेसु, तिव्वा उप्पजई रई ॥ वृ० बीईयं च द्वितीयां दशां प्राप्तो जीवो नानाक्रीडाभिः क्रीडति क्रीडां करोतीत्यर्थः, से तस्य द्वितीयाऽवस्थावर्त्तिनो जीवस्य कामौ च शब्दरूपे भोगाश्च गन्धरसस्पर्शाः कामभोगास्तेषु तीव्रा प्रबला रति मन्मथवाञ्छा नोत्पद्यते न प्रकटीभवतीत्यर्थः ।
तइयं च दसं पत्तो, पंचकामगुणे नरो । समत्थो भुंजिउं भोए, जइ से अत्थि घरे धुवा॥ वृ० तइयं च तृतीयां दशां प्राप्तः पंचकामगुणे शब्द-रूप-रस-गन्ध-स्पर्शलक्षणे नरो मनुष्यः आसक्तो भवति, तथा तदा भोगान् भोक्तुं समर्थो भवति यदि से तस्य जीवस्य अस्तीति सत्तारूपतया वर्त्तते गृहे स्वावासे धुवेति राजाद्युपद्रवाभावेन निश्चला समृद्धिरिति शेषः ।।
चउत्थी उ बला नाम, जं नरो दसमस्सिओ । समत्थो बलं दरिसेउं, जइ भवे निरुवद्दवो। वृ० चउ० चतुर्थी बलानाम्नी दशा वर्तते, यां बलानाम्नी दशामाश्रितो नरः समर्थो भवति बलं स्ववीर्यं द्रष्टुं [दर्शयितुं] फलिह(फलहि?)मल्लवत्, यदि भवेत् निरुपद्रवो रोगादिक्लेशरहितः, अन्यथा मात्स्यिकमल्लवत् विनाशं यातीति ।
पंचमी उ दसं पत्तो, आणुपुव्वीए जो नरो । समत्थोऽत्थं विचिंतेउं, कुडुंबं चाभिगच्छइ॥ वृ० पंचमी उ पञ्चमी दशां प्राप्तः आनुपूर्व्या परिपाट्या यो नरः स समर्थो भवति अर्थं विचिन्तयितुं द्रव्यचिन्तां कर्तुं च पुनः कुटुम्बं प्रति अभिगच्छति कुटुंबचिन्तायां प्रवर्तते इत्यर्थः ।
छट्ठीओ हायणी नामा, जं नरो दसमस्सिओ। विरजइ उ कामेसुं, इंदिएसु य हायइ॥ वृ० छट्ठी उ षष्ठी हापनीनाम्नी दशा वर्त्तते, यां हापनी दशां नर आश्रितः विरजइ त्ति प्रवाहेण विरक्तो भवति, केभ्यः ?- काम्यन्त इति कामा: कन्दर्पाभिलाषास्तेभ्यः इन्द्रियेषु श्रवण-घ्राणचक्षु-र्जिह्वा-स्पर्शनलक्षणेषु हीयते हानिं गच्छतीत्यर्थः ।।
सत्तमी य पवंचाओ, जं नरो दसमस्सिओ। निच्छुहइ चिक्कणं खेलं, खासई य खणे खणे ॥ वृ० सत्तमी० सप्तमी प्रपञ्चा दशा, यां दशाम् आश्रितः निच्छुभइ त्ति बहिर्निक्षिपति यत्र कुत्रापि बहिर्निस्सारयति चिक्कणं पिच्छिलं चेपकतुल्यमित्यर्थः खेलं श्लेष्माणं च पुनः क्षणं वारं वारं खासइ त्ति खासितं करोतीत्यर्थः ।। __ संकुइयवलीचम्मो, संपत्तो अट्ठमीदसं । नारीणं च अणिट्ठो य, जराए परिणामिओ ॥ वृ० संकुइ० अष्टमी दशां प्राप्तो जीवः सङ्कुचितवलिचर्मा भवति, च पुनः जरया परिणमितो व्याप्तः स्यात्, नारीणां स्व-परस्त्रीणाम् अनिष्टो भवति, श्रावस्तीपुरीवास्तव्यजिनदत्तश्राद्धवदिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org