________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
तथा छन्दना च प्राग्गृहीतेनाशनादिना कार्या, इहावाचि--- पुव्वगहिएण छंदण गुरुआणाए जहारिहं होइ ।
असणादिणा उ एसा णेयेह विसेसविसय त्ति || [ पञ्चा० १२।३४]
८६०
तथा निमन्त्रणा अगृहीतेनैवाशनादिना भवदर्थमहमशनादिकमानयाम्येवंभूता, इहार्थे 5 अभ्यधायि–
15
सज्झाया उव्वाओ श्रान्तः गुरुकिच्चे सेसगे असंतम्मि ।
तं पुच्छिऊण कज्जे सेसाण निमंतणं कुज्ज ॥ [ पञ्चा० १२३८] ।
तथा उवसंपय त्ति उपसंपत् इतो भवदीयोऽहमित्यभ्युपगमः, सा च ज्ञान - दर्शनचारित्रार्थत्वात् त्रिधा, तत्र ज्ञानोपसम्पत् सूत्रार्थयोः पूर्वगृहीतयोः स्थिरीकरणार्थं तथा 10 वित्रुटितसन्धानार्थं तथा प्रथमतो ग्रहणार्थमुपसम्पद्यते, दर्शनोपसम्पदप्येवम्, नवरं दर्शनप्रभावकसम्मत्यादिशास्त्रविषया, चारित्रोपसम्पच्च वैयावृत्यकरणार्थं क्षपणार्थं वोपसम्पद्यमानस्येति, भणितं हि
उवसंपया यतिविहा नाणे तह दंसणे चरित्ते य । दंसण - नाणे तिविहा दुविहा य चरित्तअट्ठाए ॥ वत्तणसंधणगहणे सुत्तत्थोभयगया उस त्ति ।
वेयावच्चे खमणे काले पुण आवकहियाइ ॥ [ पञ्चा० १२।४२-४३] त्ति ।
काले त्ति उपक्रमणकाले आवश्यकोपोद्घातनिर्युक्त्यभिहिते, सामाचारी दशविधा भवति ।
[सू० ७५० ] समणे भगवं महावीरे छउमत्थकालिताते अंतिमरातितंसि इमे 20 दस महासुमिणे पासित्ताणं पडिबुद्धे, तंजहा
एगं च णं महाघोररूवदित्तधरं तालपिसायं सुमिणे पराजितं पासित्ताणं डिबुद्धे १ ।
एगं च णं महं सुक्किलपक्खगं पूसकोइलगं सुमिणे पासित्ताणं पडिबुद्धे २ । एगं चणं महं चित्तविचित्तपक्खगं पूसकोइलं सुविणे पासित्ताणं पडिबुद्धे ३ ।
१. चोप जे१ खं० ॥ २. 'याए खं० ॥ ३. आव० नि० ६९८-९९ ।। ४. तुलना - भगवतीसूत्रे षोडशे शतके षष्ठ उद्देशके । तृतीये परिशिष्टे टिप्पणं द्रष्टव्यमत्र ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org