________________
८३४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे आकाशप्रदेशानां यदानन्त्यमिति, एकतोऽनन्तकमतीताद्धा अनागताद्धा वा, द्विधाऽनन्तकं सर्वाद्धा, देशविस्तारानन्तकम् एक आकाशप्रतरः, सर्वविस्तारानन्तकं सर्वाकाशास्तिकाय इति, शाश्वतानन्तकमक्षयं जीवादिद्रव्यमिति ।
[सू० ७३१] उप्पायपुव्वस्स णं दस वत्थू पण्णत्ता १। 5 अत्थिणत्थिप्पवातपुव्वस्स णं दस चूलवत्थू पण्णत्ता २।
[टी०] एवंविधार्थाभिधायकं पूर्वगतश्रुतमिति पूर्वश्रुतविशेषमिहावतारयन् सूत्रद्वयमाहउप्पायेत्यादि, उत्पादपूर्वं प्रथमं तस्य दश वस्तूनि अध्यायविशेषाः, अस्तिनास्तिप्रवादपूर्वं चतुर्थं तस्य मूलवस्तूनामुपरि चूलारूपाणि वस्तूनि चूलावस्तूनि। [सू० ७३२] दसविधा पडिसेवणा पण्णत्ता, तंजहादप्प-प्पमाद-ऽणाभोगे, आउरे आवतीसु त । संकिते सहसक्कारे, भय प्पयोसा य वीमंसा ॥१५४॥ दस आलोयणादोसा पण्णत्ता, तंजहाआकंपइत्ता अणुमाणइत्ता, जं दिहें बायरं व सुहुमं वा ।
छन्नं सद्दाउलगं, बहुजण अव्वत्त तस्सेवी ॥१५५॥ 15 दसहिं ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसमालोएत्तते, तंजहा
जातिसंपन्ने, कुलसंपन्ने, एवं जधा अट्ठट्ठाणे जाव खंते, दंते, अमाती, अपच्छाणुतावी ।
दसहिं ठाणेहिं संपन्ने अणगारे अरिहति आलोयणं पडिच्छित्तते, तंजहाआयारवं, आहारवं जाव अवातदंसी, पितधम्मे, दढधम्मे । 20 [टी०] पूर्वगतादिश्रुतनिषिद्धवस्तूनां साधोर्यद्विधा प्रतिषेवा भवति तद्विधां तां
दर्शयन्नाह- दसविहेत्यादि, प्रतिषेत्रणा प्राणातिपाताद्यासेवनम् । दप्प सिलोगो, दो वल्गनादिः, दप्पो पुण होइ वग्गणाईओ [ ] इति वचनात्, तस्मादागमप्रतिषिद्धप्राणातिपाताद्यासेवा या सा दर्पप्रतिषेवणेति, एवमुत्तरपदान्यपि
नेयानि, नवरं प्रमादः परिहास-विकथादिः, कंदप्पाइ पमाओ [ ] इति वचनाद्, 25 विधेयेष्वप्रयत्नो वा, अनाभोगो विस्मृतिः, एषां समाहारद्वन्द्वस्तत्र, तथा आतुरे ग्लाने
सति तत्प्रतिजागरणार्थमिति भावः, अथवा आत्मन एवातुरत्वे सति, लुप्तभावप्रत्ययत्वात्, १. दृश्यतां तृतीयं परिशिष्टम् ॥ २. `षेवा जे१ ॥ ३. षेवेति जे१ ॥ ४. °थादि जे१ विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.