SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ८३२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे कालवाल-सेलवाल-संखवालाभिधानानामुत्पातपर्वताभिधायीनि त्रीण्यन्यानि सूत्राणि दर्शयति । एवं भूयाणंदस्स वि त्ति भूतानन्दस्यापि औदीच्यनागराजस्यापि उत्पातपर्वतस्तस्य नाम प्रमाणं च वाच्यम्, यथा धरणस्येत्यर्थः, भूतानन्दप्रभश्चोत्पातपर्वतोऽरुणोद एव भवति, केवलमुत्तरतः, एवं लोगपालाण वि से 5 त्ति से तस्य भूतानन्दस्य लोकपालानामपि, एवमुत्पातपर्वतप्रमाणं यथा धरणलोकपालानामिति भावः, नवरं तन्नामानि चतु:स्थानकानुसारेण ज्ञातव्यानीति, जहा धरणस्सेति यथा धरणस्य । एवमिति तथा सुपर्णविद्युत्कुमारादीनां ये इन्द्रास्तेषामुत्पातपर्वतप्रमाणं भणितव्यम्, किंपर्यन्तानां तेषामित्यत आह- जाव थणियकुमाराणं ति प्रकटम्, किमिन्द्राणामेव ? नेत्याह- सलोगपालाणं ति, 10 तल्लोकपालानामपीत्यर्थः, सव्वेसिमित्यादि, सर्वेषामिन्द्राणां तल्लोकपालानां चोत्पातपर्वता: सदृग्नामानो भणितव्याः, यथा धरणस्य धरणप्रभः, प्रथमतल्लोकपालस्य कालवालस्य कालवालप्रभ इत्येवं सर्वत्र, ते च पर्वता: स्थानमङ्गीकृत्यैवं भवन्ति असुराणं नागाणं उदहिकुमाराण होंति आवासा । अरुणोदए समुद्दे तत्थेव य तेसि उप्पाया ॥ 15 दीवदिसाअग्गीणं थणियकुमाराण होंति आवासा। अरुणवरे दीवम्मि उ तत्थेव य तेसि उप्पाया ॥ [द्वीपसागर० २२०-२२१] इति । सक्कस्सेत्यादि, कुण्डलवरे द्वीपे कुण्डलपर्वतस्याभ्यन्तरे दक्षिणतः षोडश राजधान्यः सन्ति, तासां चतसृणां चतसृणां मध्ये सोमप्रभ-यमप्रभ-वरुणप्रभ-वैश्रमणप्रभाख्या उत्पातपर्वता: सोमादीनां शक्रलोकपालानां भवन्ति, उत्तरपार्श्वे तु एवमेवेशानलोक20 पालानामिति, यथा शक्रस्य तथाऽच्युतान्तानामिन्द्राणां लोकपालानां चोत्पातपर्वता वाच्याः, यतः सर्वेषामेकं प्रमाणम्, नवरं स्थानविशेषो विशेषसूत्रादवगन्तव्यः । [सू० ७२८] बादरवणस्सतिकातिताणं उक्कोसेणं दस जोयणसताई सरीरोगाहणा पण्णत्ता ११ जलचरपंचेंदियतिरिक्खजोणिताणं उक्कोसेणं दस जोयणसताई सरीरोगाहणा १. कोल' खं० पा० जे२ ।। २. स्सेत्यादि यथा जे१ ॥ ३. सुपर्ण नास्ति जे१ खं० भवनवासिनोऽसुर नाग-विद्युत्-सुपर्णा-ऽग्नि-वात-स्तनितोदधि-द्वीप-दिक्कुमाराः [तत्त्वार्थ० ४।११] ॥ ४. उप्पाय त्ति दीव ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy