________________
८३१
[सू० ७२७]
दशममध्ययनं दशस्थानकम् । चमरस्सेत्यादि सुगमम्, नवरं तिगिंच्छिकूडे त्ति तिगिच्छी किंजल्कः, तत्प्रधानकूटत्वात्तिगिंच्छिकूटः, तत्प्रधानत्वं च कमलबहुलत्वात्, संज्ञा चेयम्, उप्पायपव्वए त्ति उत्पतनम् ऊर्ध्वगमनमुत्पातस्तेनोपलक्षित: पर्वत उत्पातपर्वतः, स च रुचकवराभिधानात् त्रयोदशात् समुद्राद्दक्षिणतोऽसङ्ख्येयान् द्वीप-समुद्रानतिलध्य यावदरुणवरद्वीपा-ऽरुणवरसमुद्रौ तयोररुणवरसमुद्रं दक्षिणतो द्विचत्वारिंशतं 5 योजनसहस्राण्यवगाह्य भवति, तत्प्रमाणं च
सत्तरस एकवीसाइं जोयणसयाई सो समुव्विद्धो । दस चेव जोयणसए बावीसे वित्थडो हेट्ठा । चत्तारि जोयणसए चउवीसे वित्थडो उ मज्झम्मि । सत्तेव य तेवीसे सिहरतले वित्थडो होइ ॥ [द्वीपसागर० १६६-१६७] इति, 10 सच रत्नमय: पद्मवरवेदिकया वनखण्डेन च परिक्षिप्तः, तस्य च मध्येऽशोकावतंसको देवप्रासाद इति ।
चमरस्सेत्यादि, महारन्नो त्ति लोकपालस्य सोमप्रभ उत्पातपर्वत: अरुणोदसमुद्र एव भवति, एवं यम-वरुण-वैश्रमणसूत्राणि नेयानीति । बलिस्सेत्यादि, रुचकेन्द्र उत्पातपर्वतोऽरुणोदसमुद्रे एव भवति, यथोक्तम्- 15 अरुणस्स उत्तरेणं बायालीसं भवे सहस्साई।। ओगाहिऊण उदहिं सिलनिचओ रायहाणीओ ॥ [द्वीपसागर० २११] इति,
बलिस्सेत्यादि, वतीत्यादि सूत्रसूचा, एवं च दृश्यं वइरोयणिंदस्स वइरोयणरन्नो सोमस्स य महारन्नो एवं चेव त्ति अतिदेश:, एतद्भावना- जहेत्यादि, यथा यत्प्रकारं चमरस्य लोकपालानामुत्पातपर्वतप्रमाणं प्रत्येकं चतुर्भि: सूत्रैरुक्तं तं चेव त्ति तत्प्रकारमेव 20 चतुर्भि: स्त्रैः बलिनोऽपि वैरोचनेन्द्रस्यापि वक्तव्यम्, समानत्वादिति । ___ धरणस्सेत्यादि, धरणस्योत्पातपर्वतोऽरुण एव समुद्रे भवति, धरणस्सेत्यादि प्रथमलोकपालसूत्रे एवं चेव त्ति करणात् उच्चत्तेणं दस गाउयसयाइं उव्वेहेणमित्यादि सूत्रमतिदिष्टम् । एवं जाव संखवालस्स त्ति करणात् शेषाणां त्रयाणां लोकपालानां १. तिगिछि खं० । एवमग्रेऽपि ॥ २. तिगिछि जे१ खं० ॥ ३. “वतीत्यादि सूत्रसूचा' इति लिखित्वा
टीकायाम् आ.श्री अभयदेवसूरिभिः परिपूर्ण सूत्रं दर्शितमत्र, किन्तु अस्माकं समीपे विद्यमानेषु सर्वेष्वपि मूलस्य हस्तलिखितादर्शेषु संपूर्ण सूत्रं विद्यते, अतः आ.श्री अभयदेवसूरीणां समक्षं विद्यमानेषु आदर्शेषु वति० इत्येतावदेव सूत्रं भवेदिति संभाव्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org