________________
[सू० ७१७-७२५] दशममध्ययनं दशस्थानकम् ।
८२५ विधीयते अभिषिच्यते यासु ता राजधान्य: जनपदानां मध्ये प्रधाननगर्य:, चंपा गाहा, चम्पानगरी अङ्गजनपदेषु, मथुरा सूरसेनदेशे, वाराणसी काश्याम्, श्रावस्ती कुणालायाम्, साकेतमयोध्येत्यर्थः कोशलेषु जनपदेषु, हत्थिणपुरं ति नागपुरं कुरुजनपदे, काम्पिल्यं पञ्चालेषु, मिथिला विदेहे, कौशाम्बी वत्सेषु, राजगृहं मगधेष्विति, एतासु किल साधवः उत्सर्गतो न प्रविशन्ति तरुणी- रमणीयपण्यादिदर्शनेन 5 मन:क्षोभादिसम्भवात, मासस्यान्तर्द्विस्त्रिर्वा प्रविशतां त्वाज्ञादयो दोषा इति, एताश्च दशस्थानकानुसारेणाभिहिता न तु दशैवैता: अर्द्धषड्विंशतावार्यजनपदेषु षड्विंशतेनगरीणामुक्तत्वादिति, अयं च न्यायोऽन्यत्र ग्रन्थे तेषु तेषु प्रायश्चित्तादिविचारेषु प्रसिद्ध एवेति, व्याख्यातं च दशराजधानीग्रहणे शेषाणामपि ग्रहणं निशीथभाष्ये, यदाह
10 दसरायहाणिगहणा सेसाणं सूयणा कया होइ । मासस्संतो दुग तिग ताओ अइंतम्मि आणाई ॥ [निशीथभा० २५८८] दोषाश्चेहतरुणा-वेसित्थि-विवाह-रायमाईसु होइ सइकरणं । आउज-गीयसद्दे इत्थीसद्दे य सवियारे ॥ [निशीथभा० २५९२] इति । एतास्विति अनन्तरोदितासु दशस्वार्यनगरीषु मध्ये अन्यतरासु कासुचिद्दश राजान: 15 चक्रवर्तिनः प्रव्रजिता इत्येवं दशस्थानकेऽवतारस्तेषां कृतः, द्वौ च सुभूमब्रह्मदत्ताभिधानौ न प्रव्रजितौ नरकं च गताविति । तत्र भरत-सगरौ प्रथम-द्वितीयौ चक्रवर्तिराजौ साकेते नगरे विनीता-ऽयोध्यापर्याये जातौ प्रव्रजितौ च, मघवान् श्रावस्त्याम्, सनत्कुमारादयश्चत्वारो हस्तिनागपुरे, महापद्मो वाराणस्याम्, हरिषेण: काम्पिल्ये, जयनामा राजगृहे इति, न चैतासु नगरीषु क्रमेणैते राजानो व्याख्येयाः, 20 ग्रन्थविरोधात्, उक्त च
जम्मण विणीय उज्झा सावत्थी पंच हत्थिणपुरम्मि । वाणारसि कंपिल्ले रायगिहे चेव कंपिल्ले ॥ [आव० नि० ३९७] त्ति ।
अप्रव्रजितचक्रवर्तिनौ तु हस्तिनागपुर-काम्पिल्ययोरुत्पन्नाविति, ये च यत्रोत्पन्नास्ते तत्रैव प्रव्रजिता इति, इदमावश्यकाभिप्रायेण व्याख्यातम्, निशीथभाष्याभिप्रायेण तु 25 १. पांचा' पा० ॥ २. प्रव्रजितौ वा जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org