________________
नवममध्ययनं नवस्थानकम् ।
[सू० ६९३]
तथा श्राविकां श्रमणोपासिकां सुलसाभिधानां बुद्धः सर्वज्ञधर्मे भावितेयमित्यवगतवान् श्राविका वा बुद्धा ज्ञाता येन स श्राविकाबुद्धः अंमडो अंमडाभिधानः परिव्राजकविद्याधरश्रमणोपासकः, अयं चार्थः कथानकादवसेयः, तच्चेदम्- चम्पाया नगर्या : अम्बडो विद्याधरश्रावको महावीरसमीपे धर्म्ममुपश्रुत्य राजगृहं प्रस्थित:, स च गच्छन् भगवता बहुसत्त्वोपकाराय भणित:, यथा— 5 सुलसाश्राविकाया: कुशलवार्तां कथयेः, स च चिन्तयामास पुण्यवतीयं यस्यास्त्रिलोकनाथः स्वकीयकुशलवार्तां प्रेषयति, कः पुनस्तस्या गुण इति तावत् सम्यक्त्वं परीक्षे, ततः परिव्राजकवेषधारिणा गत्वा तेन भणिताऽसौ - आयुष्मति ! धर्मो भवत्या भविष्यतीत्यस्मभ्यं भक्त्या भोजनं देहि, तया भणितम् - येभ्यो दत्ते भवत्यसौ
विदिता एव, ततोऽसावाकाशविरचिततामरसासनो जनं विस्मापयते स्म, ततस्तं जनो 10 भोजनेन निमन्त्रयामास, स तु नैच्छत्, लोकस्तं पप्रच्छ - कस्य भगवन् ! भोजनेन भागधेयवत्तां मासक्षपणपर्यन्ते संवर्द्धयिष्यति ?, स प्रतिभणति स्म - सुलसाया:, ततो लोकस्तस्या वर्द्धनकं न्यवेदयत्, यथा तव गेहे भिक्षुरयं बुभुक्षुः, तयाऽभ्यधायि - किं पाषण्डिभिरस्माकमिति, लोकस्तस्मै न्यवेदयत्, तेनापि व्यज्ञायि परमसम्यग्दृष्टिरेषा या महातिशयदर्शनेऽपि न दृष्टिव्यामोहमगमदिति, ततो लोकेन सहासौ तद्द्वे नैषधिकीं 15 कुर्वन् पञ्चनमस्कारमुच्चारयन् प्रविवेश, साऽप्यभ्युत्थानादिकां प्रतिपत्तिमकरोत्, तेनाप्यसावुपबृंहितेति, यश्चौपपातिकोपाङ्गे महाविदेहे सेत्स्यतीत्यभिधीयते सोऽन्य इति सम्भाव्यते, तथा आर्यापि आर्यिकाऽपि सुपार्श्वाभिधाना पार्श्वापत्यीया पार्श्वनाथशिष्यशिष्या । चत्वारो यामा महाव्रतानि यत्र स चतुर्यामस्तं प्रज्ञाप्य सेत्स्यन्ति ५, एतेषु च मध्यमतीर्थकरत्वेनोत्पत्स्यन्ते केचित् केचित्तु केवलित्वेन, 20 भवसिद्धिओ उ भयवं सिज्झिस्सइ कण्हतित्थम्मी [ ]ति वचनादिति भाव:, शेषं स्पष्टम्।
[सू० ६९३] एस णं अज्जो ! सेणिए राया भिंभिसारे कालमासे कालं किच्चा इमीसे रतणप्पभाते पुढवीते सीमंतते नरए चउरासीतिवाससहस्सट्ठितीयंसि निरयंसि नेरइएसु णेरइयत्ताए उववज्जिहिति, से णं तत्थ णेरइए भविस्सति
१. अमडोऽमडाभि जे१ खं० ॥ २. 'नकावसेयः जे१ खं० ॥
Jain Education International
७८९
For Private & Personal Use Only
www.jainelibrary.org