SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ [सू० ६५० ] अष्टममध्ययनम् अष्टस्थानकम् । ७५९ 10 कण्ठ्यम्, नवरम् अष्टासु स्थानेषु वस्तुषु सम्यग् घटितव्यम् अप्राप्तेषु योगः कार्यः, यतितव्यं प्राप्तेषु तदवियोगार्थं यत्नः कार्यः, पराक्रमितव्यं शक्तिक्षयेऽपि तत्पाल पराक्रमः उत्साहातिरेको विधेय इति, किं बहुना ? एतस्मिन् अष्टस्थानलक्षणे वक्ष्यमाणेऽर्थे न प्रमादनीयं न प्रमादः कार्यो भवति, अश्रुतानाम् अनाकर्णितानां धर्म्माणां श्रुतभेदानां सम्यक् श्रवणतायां श्रवणतायै वाऽभ्युत्थातव्यम् अभ्युपगन्तव्यं 5 भवति १, एवं श्रुतानां श्रोत्रेन्द्रियविषयीकृतानामवग्रहणतायै मनोविषयीकरणाय उपधारणतायै अविच्युति- स्मृति-वासनाविषयीकरणायेत्यर्थः २, विकिंचण ति विवेचना निर्जरेत्यर्थः, तस्यै, अत एवात्मनो विशुद्धिः विशोधना अकलङ्कत्वं तस्यै इति ३, असङ्गृहीतस्य अनाश्रितस्य परिजनस्य शिष्यवर्गस्येति ४, सेहं ति विभक्तिपरिणामाच्छैक्षकस्य अभिनवप्रव्रजितस्य आयारगोयरं ति आचार: साधुसमाचारस्तस्य गोचरो विषयो व्रतषट्कादिराचारगोचर:, अथवा आचारश्च ज्ञानादिविषयः पञ्चधा गोचरश्च भिक्षाचर्येत्याचारगोचरम्, इह विभक्तिपरिणामादाचारगोचरस्य ग्राहणतायां शिक्षणे शैक्षमाचारगोचरं ग्राहयितुमित्यर्थः ६, अगिलाए त्ति अग्लान्या अखेदेनेत्यर्थः, वैयावृत्यं प्रतीति शेष: ७, अधिगरणंसित्त विरोधे, तत्र साधर्मिकेषु, निश्रितं रागः उपाश्रितं द्वेषः, अथवा निश्रितम् 15 आहारादिलिप्सा उपाश्रितं शिष्य-कुलाद्यपेक्षा, तद्वर्जितो यः सोऽनिश्रितोपाश्रितः, न पक्षं शास्त्रबाधितं गृह्णातीत्यपक्षग्राही, अत एव मध्यस्थभावं भूतः प्राप्तो यः स तथा, स भवेदिति शेष:, तेन च तथाभूतेन कथं नु केन प्रकारेण साधर्म्मिका साधवोऽल्पशब्दाः विगतराटीमहाध्वनयः अल्पझंझा विगततथाविधविप्रकीर्णवचनाः अल्पतुमुतुमाः विगतक्रोधकृतमनोविकारविशेषा भविष्यन्तीति भावयतोपशमनाया - 20 ऽधिकरणस्याभ्युत्थातव्यं भवतीति । [सू० ६५० ] महासुक्क सहस्सारेसु णं कप्पेसु विमाणा अट्ठ जोयणसताई उडुंउच्चत्तेणं पन्नत्ता । [टी०] अप्रमादिनां देवलोकोऽपि भवतीति देवलोक प्रतिबद्धाष्टकमाहमहासुक्केत्यादि कण्ठ्यम् । १. विकिंचणयाए त्ति पा० जे२ ॥ २. भवन्तीति जे१ । ३. संभवतीति जे१ ॥ Jain Education International For Private & Personal Use Only 25 www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy