SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ७४७ [सू० ६३५-६३६] अष्टममध्ययनम् अष्टस्थानकम् । परमाणू तसरेणू रहरेणू अग्गयं च वालस्स । लिक्खा जूया य जवो अट्ठगुणविवद्धिया कमसो ॥ [अनुयोगद्वार० सू० ३३९] तत्र परमाणुरनन्तानां निश्चयपरमाणूनां समुदयरूपः, ऊर्ध्वरेण्वादिभेदा अनुयोगद्वाराभिहिता अनेनैव सगृहीता दृश्या:, तथा पौरस्त्यादिवायुप्रेरितस्त्रस्यति गच्छतीति त्रसरेणुः, रथगमनोत्खातो रथरेणुरिति, एवं चाष्टौ यवमध्यान्यङ्गुलम्, 5 चतुर्विंशतिरगुलानि हस्त:, चत्वारो हस्ता धनुः, द्वे सहस्रे धनुषां गव्यूतम्, चत्वारि गव्यूतानि योजनमिति, मागधग्रहणात् क्वचिदन्यदपि योजनं स्यादिति प्रतिपादितम्, तत्र यस्मिन् देशे षोडशभिर्धनु:शतैर्गव्यूतं स्यात्तत्र षड्भिः सहस्रैश्चतुर्भिः शतैर्धनुषां योजनं भवतीति । [सू० ६३५] जंबू णं सुदंसणा अट्ट जोयणाई उटुंउच्चत्तेणं बहुमज्झदेसभाए, 10 अट्ट जोयणाई विक्खंभेणं, सातिरेगाइं अट्ट जोयणाइं सव्वग्गेणं पन्नत्ता १। कूडसामली णं अट्ठ जोयणाई एवं चेव २। [सू० ६३६] तिमिसगुहा णमट्ठ जोयणाई उडुंउच्चत्तेणं पन्नत्ता ३ । खंडगपवातगुहा णं अट्ठ एवं चेव ४ । [टी०] योजनप्रमाणमभिधायाथ योजनतो जम्ब्वादीनां प्रमाणप्रतिपादनाय 15 सूत्रचतुष्टयमाह- जंबू णमित्यादि, जम्बू: वृक्षविशेषस्तदाकारा सर्वरत्नमयी या सा जम्बूः, यया अयं जम्बूद्वीपोऽभिधीयते, सुदर्शनेति तस्या नाम, सा चोत्तरकुरूणां पूर्वार्द्ध शीताया महानद्या: पूर्वेण जाम्बूनदमययोजनशतपञ्चकायामविष्कम्भस्य द्वादशयोजनमध्यभागपिण्डस्य क्रमपरिहाणितो द्विगव्यूतोच्छ्रितपर्यन्तस्य द्विगव्यूतोच्छ्रितपञ्चधनु:शतविस्तीर्णपद्मवरवेदिकापरिक्षिप्तस्य द्विगव्यूतोच्छ्रित- 20 सच्छत्रतोरणचतुरिस्य पीठस्य मध्यभागव्यवस्थितायां चतुर्योजनोच्छ्रितायामष्टयोजनायाम-विष्कम्भायां मणिपीठिकायां प्रतिष्ठिता द्वादशवेदिकागुप्ता । अट्ठ जोयणाइमित्यादि अष्ट योजनान्यूर्वोच्चत्वेन बहुमध्यदेशभागे शाखाविस्तारदेशे, अष्ट योजनानि विष्कम्भेण, सातिरेकाणि अतिरेकयुक्तान्युद्वेधगव्यूतिद्वयेनाधिकानीति १. ज्योतिष्करण्डके गा० ७३, जीवसमासे गा० ९८, प्रवचनसारोद्धारे गा० १३९१ ॥ २. °याष्टयोजनतो पा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy