SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ७४६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे द्वीपाधिकारादन्तरद्वीपसूत्रम्, तत एव द्वीपवत: कालोदसमुद्रस्य प्रमाणसूत्रम्, तदनन्तरभाविनः पुष्कराभ्यन्तरार्द्धस्य बाह्यार्द्धस्य च सूत्रे, सुगमानि चैतानि, नवरमुल्कामुख-मेघमुख-विद्युन्मुख-विद्युद्दन्तशब्देषु प्रत्येकं द्वीपशब्दः सम्बध्यते, ततश्चोल्कामुखद्वीपादयो णमित्यलङ्कारे द्वीपा हिमवतः शिखरिणश्च वर्षधरपर्वतस्य 5 पूर्वयोर्दष्ट्रयोरपरयोश्च सप्तानां सप्तानामन्तरद्वीपानां मध्ये षष्ठा अन्तरद्वीपा: अष्टावष्टौ योजनशतानि आयामविष्कम्भेण प्रज्ञप्ताः । [सू० ६३३] एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स अट्ठसोवण्णिते काकणिरतणे छत्तले दुवालसंसिते अट्ठकण्णिते अधिकरणिसंठिते पन्नत्ते । टी०] पुष्कराद्धे च चक्रिणो भवन्तीति तत्सत्करत्नविशेषस्याष्टस्थानकेऽवतारं : 10 कुर्वन्नाह- एगमेगेत्यादि, एकैकस्य राज्ञश्चतुरन्तचक्रवर्तिन इत्यत्रान्यान्य कालोत्पन्नानामपि तुल्यकाकणीरत्नप्रतिपादनार्थमेकैकग्रहणम्, निरुपचरितराजशब्दविषयज्ञापनार्थं राजग्रहणम्, षट्खण्डभरतादिभोक्तृत्वप्रतिपादनार्थं चतुरन्तचक्रवर्तिग्रहणमिति, अष्टसौवर्णिकं काकणिरत्नम्, सुवर्णमानं तु चत्वारि मधुरतृणफलान्येक: श्वेतसर्षपः, षोडश सर्षपा एकं धान्यमाषफलम्, द्वे धान्यमाषफले एका गुञ्जा, पञ्च 15 गुञ्जा एक: कर्ममाषकः, षोडश कर्ममाषका एकः सुवर्णः, एतानि च मधुरतृणफलादीनि भरतकालभावीनि गृह्यन्ते, यत: सर्वचक्रवर्तिनां तुल्यमेव काकणिरत्नमिति, षट्तलं द्वादशाम्रि अष्टकर्णिकम् अधिकरणीसंस्थितं प्रज्ञप्तमिति, तत्र तलानि मध्यखण्डानि, अश्रय: कोटय:, कर्णिकाः कोणविभागा:, अधिकरणिः सुवर्णकारोपकरणं प्रतीतमेवेति, इदं च चतुरङ्गुलप्रमाणं चउरंगुलप्पमाणा सुवन्नवरकागणी नेय [बृहत्सं० ३०२] 20 त्ति वचनादिति । [सू० ६३४] मागधस्स णं जोयणस्स अट्ट धणुसहस्साइं निधत्ते पण्णत्ते। [टी०] अङ्गुलप्रमाणनिष्पन्नं योजनमानमाह- मागहेत्यादि, मगधेषु भवं मागधं मगधदेशव्यवहृतं तस्य योजनस्य अध्वमानविशेषस्याष्ट धनुःसहस्राणि निहारो निर्गम: प्रमाणमिति यावत्, निहत्ते त्ति क्वचित्पाठः, तत्र निधत्तं निकाचितं निश्चितं प्रमाणमिति 25 गम्यते, इदं च प्रमाणं परमाण्वादिना क्रमेणावसेयम्, तथाहि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy