________________
७१३
अथाष्टममध्ययनम् अष्टस्थानकम् । [सू० ५९४] अट्ठहिं ठाणेहिं संपन्ने अणगारे अरिहति एगल्लविहारपडिमं उवसंपज्जित्ता णं विहरित्तते, तंजहा-सड्डी पुरिसजाते, सच्चे पुरिसजाते, मेहावी पुरिसजाते, बहुस्सुते पुरिसजाते, सत्तिमं, अप्पाधिकरणे, धितिमं, वीरितसंपन्ने।
[टी०] व्याख्यातं सप्तममध्ययनमधुना सङ्ख्याक्रमसम्बद्धमेवाष्टस्थानकाख्य- 5 मष्टममध्ययनमारभ्यते, तस्य चेदमादिसूत्रम्- अट्टहीत्यादि, अस्य च पूर्वसूत्रेण सहायं सम्बन्ध:- अनन्तरं पुद्गला उक्ता:, ते च कार्मणा: प्रतिमाविशेषप्रतिपत्तिमतो विशेषण निर्जीर्यन्त इत्येकाकिविहारप्रतिमायोग्य: पुरुषो निरूप्यते, इत्येवंसम्बन्धस्यास्य व्याख्या, संहितादिचर्चस्तु प्रसिद्ध एव, नवरम् अष्टाभि: स्थानैः गुणविशेषैः सम्पनो युक्तोऽनगारः साधुरर्हति योग्यो भवति, एगल्ल त्ति एकाकिनो विहारो ग्रामादिचर्या स एव प्रतिमा 10 अभिग्रह: एकाकिविहारप्रतिमा जिनकल्पप्रतिमा मासिक्यादिका वा भिक्षुप्रतिमा तामुपसम्पद्य आश्रित्य णमित्यलङ्कारे विहर्तुं ग्रामादिषु चरितुम्, तद्यथा- सड्डि त्ति श्रद्धा तत्त्वेषु श्रद्धानमास्तिक्यमित्यर्थोऽनुष्ठानेषु वा निजोऽभिलाषस्तद्वत्, सकलनाकिनायकैरप्यचलनीयसम्यक्त्वचारित्रमित्यर्थः, पुरुषजातं पुरुषप्रकार: १, तथा सत्यं सत्यवादि, प्रतिज्ञाशूरत्वात्, सद्भयो हितत्वाद्वा सत्यम् २, तथा मेधा 15 श्रुतग्रहणशक्तिस्तद्वत् मेधावि, अथवा मेराए धावति त्ति मेधावि मर्यादावर्ति ३, तथा मेधावित्वाद् बहु प्रचुरं श्रुतम् आगम: सूत्रतोऽर्थतश्च यस्य तद् बहुश्रुतम्, तच्चोत्कृष्टतोऽसम्पूर्णदशपूर्वधरं जघन्यतो नवमस्य तृतीयवस्तुवेदीति ४, तथा शक्तिमत् समर्थं पञ्चविधकृततुलनमित्यर्थः, तथाहितवेण सत्तेण सुत्तेण एगत्तेण बलेण य ।
20 तुलणा पंचहा वुत्ता जिणकप्पं पडिवजओ ॥ [बृहत्कल्प० १३२८] त्ति ५।
अल्पाधिकरणं निष्कलहम् ६, धृतिमत् चित्तस्वास्थ्ययुक्तमरतिरत्यनुलोमप्रतिलोमोपसर्गसहमित्यर्थः ७, वीर्यम् उत्साहातिरेकस्तेन संपन्नमिति ८, इहाद्यानामेव चतुर्णां पदानां प्रत्येकमन्ते पुरुषजातशब्दो दृश्यते ततोऽन्त्यानामप्ययं सम्बन्धनीय इति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org