SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ७१२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे त्ति सौमनसे गजदन्तके देवकुरूणां प्राचीने कूटानि शिखराणि, सिद्धे गाहा, सिद्धायतनोपलक्षितं सिद्धकूटं मेरुप्रत्यासन्नमेवं सर्वगजदन्तकेषु सिद्धायतनानि, शेषाणि तत: परंपरयेति, सोमणसे त्ति सौमनसकूटं तत्समाननामकतदधिष्ठातृदेवभवनोपलक्षितम्, मङ्गलावतीविजयसमनामदेवस्य मङ्गलावतीकूटम्, एवं देवकुरुदेवनिवासो 5 देवकुरुकूटमिति, विमल-काञ्चनकूटे यथार्थे क्रमेण च वत्सावत्समित्राभिधाना धोलोकवासिदिक्कुमारीद्वयनिवासभूते, वशिष्टकूटं तन्नामदेवनिवासः, एवमुत्तरत्रापि । गन्धमादनो गजदन्तक एवोत्तरकुरूणां प्रतीचीनः, तत्र सिद्ध गाहा कण्ठ्या, नवरं स्फटिककूट-लोहिताक्षकूटे अधोलोकनिवासिभोगङ्करा-भोगवत्यभिधानदिक्कुमारीद्वयनिवासभूते इति । 10 [सू० ५९१] बेतिंदिताणं सत्त जातीकुलकोडिजोणिपमुहसतसहस्सा पन्नत्ता। [सू० ५९२] जीवा णं सत्तट्ठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संति वा, तंजहा-नेरतियनिव्वत्तिते जाव देवनिव्वत्तिते। एवं चिण जाव णिजरा चेव ॥ 15 [सू० ५९३] सत्तपदेसिता खंधा अणंता पण्णत्ता । सत्तपदेसोगाढा पोग्गला जाव सत्तगुणलुक्खा पोग्गला अणंता पण्णत्ता ।। [टी०] कूटेष्वपि पुष्करिणीजले द्वीन्द्रिया: सन्तीति द्वीन्द्रियसूत्रं बेइंदियाणमित्यादि, जातौ द्वीन्द्रियजातौ या: कुलकोटय: तास्तथा ताश्च ता योनिप्रमुखाश्च द्विलक्षसङ्ख्य द्वीन्द्रियोत्पत्तिस्थानद्वारिकास्ता जातिकुलकोटियोनिप्रमुखाः, इह च विशेषणं परपदं 20 प्राकृतत्वात्, तासां शतसहस्राणि लक्षाणीति, इदमुक्तं भवति- द्वीन्द्रियजातौ या योनयस्तत्प्रभवा या: कुलकोटयस्तासां लक्षाणि सप्त प्रज्ञप्तानीति, तत्र योनिर्यथा गोमयः, तत्र चैकस्यामपि कुलानि विचित्राकारा: कृम्यादय इति । शेषा ध्रुवगण्डिका ससम्बन्धा पूर्ववद् व्याख्येयेति । इति श्रीमदभयदेवाचार्यविरचिते स्थानाख्यतृतीयाङ्गविवरणे सप्तस्थानकाभिधानं 25 सप्तममध्ययनं समाप्तमिति । श्लोकाः ९३० ॥ १. समाप्तं ९३० पा० जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy