________________
६९३
[सू० ५७०-५७१]
सप्तममध्ययनं सप्तस्थानकम् । उवस्सगस्स एगरातं वा दुरातं वा वसमाणे नातिक्कमति, उवकरणातिसेसे, भत्तपाणातिसेसे ।
[टी०] विकथासु च वर्तमानान् साधूनाचार्या निषेधयन्ति सातिशयत्वात्तेषामिति तदतिशयप्रतिपादनायाह- आयरियेत्यादि, पञ्चस्थानके व्याख्यातप्रायं तथापि किञ्चिदुच्यते- आचार्योपाध्यायो निगृह्य निगृह्य अन्तर्भूतकारितार्थत्वेन पादधूल्या: 5 प्रसरन्त्या निग्रहं कारयित्वा प्रस्फोटयन पादप्रोञ्छनेन वैयावृत्यकरादिना प्रस्फोटनं कारयन् प्रमार्जयन् प्रमार्जनं कारयन् नाज्ञामतिक्रामति, शेषसाधव: उपाश्रयाद् बहिरिदं कुर्वन्तीत्याचार्यादेरतिशय:, एवमित्यादिनेदं सूचितम् आयरियउवज्झाए अंतो उवस्सयस्स उच्चारपासवणं विगिंचेमाणे वा विसोहेमाणे वा णाइक्कमइ २, आयरियउवज्झाए पभू इच्छा वेयावडियं करेज्जा इच्छा नो करेज्जा ३, आयरियउवज्झाए अंतो उवस्सयस्स 10 एगरायं वा दुरायं वा संवसमाणे णाइक्कमइ ४, आयरियउवज्झाए बाहिं उवस्सयस्स एगरायं वा दुरायं वा संवसमाणे णाइक्कमइ ५,' एतद् व्याख्यातमेवेति । इदमधिकम्उपकरणातिशेष: शेषसाधुभ्य: सकाशात् प्रधानोज्ज्वलवस्त्राद्युपकरणता, उक्तं च
आयरियगिलाणाणं मइला मइला पुणो वि धोवंति ।। मा हु गुरूण अवन्नो लोगम्मि अजीरणं इयरे ॥ [ओघनि० ३५१] इति ग्लाने इत्यर्थः। 15 भक्तपानातिशेषः पूज्यतरभक्तपानतेति, उक्तं चकलमोयणो उ पयसा परिहाणी जाव कोद्दवुब्भज्जी । तत्थ उ मिउ तुप्पतरं जत्थ य ज अच्चियं दोसु ॥ [ओघनि० भा० ३०७] कोद्दवुब्भजि त्ति कोद्दवजाउलयम्, दोसु त्ति क्षेत्र-कालयोरिति, गुणाश्चैतेसुत्तत्थथिरीकरणं विणओ गुरुपूय सेहबहुमाणो।। दाणवतिसद्धवुट्टी बुद्धीबलवद्धणं चेव ॥ [ओघनि० ६०९] इति ।
[सू० ५७१] सत्तविधे संजमे पन्नत्ते, तंजहा-पुढविकातितसंजमे जाव तसकातितसंजमे, अजीवकायसंजमे १ ।
सत्तविधे असंजमे पन्नत्ते, तंजहा-पुढविकातितअसंजमे जाव तसकातितअसंजमे, अजीवकायअसंजमे २ । १,३. सू० ४३८ ॥ २. “इन् कारितं धात्वर्थे । धातोश्च हेतौ । चुरादेश्च ।" इति कातन्त्रव्याकरणे ३।२।९-११॥
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org