SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ [सू० ५५३] . सप्तममध्ययनं सप्तस्थानकम् । नृत्यत्पदक्षेपलक्षणो वा यस्मिंस्तत्समप्रत्युत्क्षेपं समप्रतिक्षेपं वेति । तथा सत्तसरसीभरं ति सप्त स्वरा: सीभरं ति अक्षरादिभि: समा यत्र तत् सप्तस्वरसीभरम्, ते चामी अक्खरसमं १ पयसमं २ तालसमं ३ लयसमं ४ गहसमं च ५। नीससिऊससियसमं ६ संचारसमं ७ सरा सत्त ॥ [अनुयोग० सू० २६० [१०]] त्ति । इयं च गाथा स्वरप्रकरणोपान्ते तंतिसममित्यादिरधीतापि इहाऽक्षरसममित्यादिः 5 व्याख्यायते, अनुयोगद्वारटीकायामेवमेव दर्शनादिति, तत्र दीर्घ अक्षरे दीर्घः स्वर: क्रियते हस्वे ह्रस्व: प्लुते प्लुत: सानुनासिके सानुनासिकः तदक्षरसमम्, तथा यद् गेयपदं नामिकादिकमन्यतरबन्धेन बद्धं यत्र स्वरे अनुपाति भवति तत्तत्रैव यत्र गीते गीयते तत् पदसममिति, यत् परस्पराहतहस्ततालस्वरानुवर्त्ति भवति तत्तालसमम्, शृङ्गदार्वाद्यन्यतरमयेनाङ्गुलिकोशकेनाहतायास्तन्त्र्या: स्वरप्रकारो लयस्तमनुसरतो गातुर्यद् 10 गेयं तल्लयसमम्, प्रथमतो वंश-तन्त्र्यादिभिर्य: स्वरो गृहीतस्तत्समं गीयमानं ग्रहसमम्, नि:श्वसितोच्छसितमानमनतिक्रामतो यद् गेयं तन्नि:श्वसितोच्छ्वसितसमम्, तैरेव वंश-तन्त्र्यादिभिर्यदङ्गुलिसञ्चारसमं गीयते तत् सञ्चारसमम्, गेयं च सप्त स्वरास्तदात्मकमित्यर्थः । यो गेये सूत्रबन्ध: स एवमष्टगुण एव कार्य इत्याह- निद्दोसं सिलोगो, तत्र निर्दोषम् 15 अलियमुवघायजणयं [आव० नि० ८८१-८८४, बृहत्कल्प० २७८-२८१] इत्यादिद्वात्रिंशत्सूत्रदोषरहितम् १, सारवद् अर्थेन युक्तम् २, हेतुयुक्तम् अर्थगमककारणयुक्तम् ३, अलङ्कृतं काव्यालङ्कारयुक्तम् ४, उपनीतम् उपसंहारयुक्तम् ५, सोपचारम् अनिष्ठुराविरुद्धालज्जनीयाभिधानं सोत्प्रासं वा ६, मितं पद-पादा-ऽक्षरैः, नापरिमितमित्यर्थः ७, मधुरम् त्रिधा शब्दा-ऽर्था-ऽभिधानतः ८, गेयं भवतीति शेष:। 20 __तिनि य वित्ताई ति यदुक्तं तद्व्याख्या- समं सिलोगो, तत्र समं पादैरक्षरैश्च, तत्र पादैश्चतुर्भिरक्षरैस्तु गुरुलघुभिः, अर्द्धसमं त्वेकतरसमम्, विषमं तु सर्वत्र पादाक्षरापेक्षयेत्यर्थः, अन्ये तु व्याचक्षते- समं यत्र चतुर्ध्वपि पादेष समान्यक्षराणि. अर्द्धसमं यत्र प्रथम-तृतीययोर्द्वितीय-चतुर्थयोश्च समत्वम्, तथा सर्वत्र सर्वपादेषु विषमं १. "त्पाद पा० जे२ ॥ २. 'त्यादिः कृत्वा व्या जेमू१ ।। ३. पृ०३०९॥४. °सममिति गेयं जे१ ।। ५. पदपदा जे१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy