________________
६७८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
वक्ष्यमाणलक्षणमिति, तथा समुद्वहन्तश्च महत्तां गीतध्वनेरिति गम्यते, मध्यकारे मध्यभागे, तथा अवसाने च क्षपयन्तो गीतध्वनिं मन्द्रीकुर्वन्तस्त्रयो गीतस्याकारा भवन्ति, आदि-मध्या-ऽवसानेषु गीतध्वनि: मृदु-तार-मन्द्रस्वभाव: क्रमेण भवतीति
भावः । 5 किञ्चान्यत्– छ दोसे दारगाहा, षट् दोषा वर्जनीया:, तानाह– भीयं गाहा, भीतं त्रस्तमानसम् १, द्रुतं त्वरितम् २, रहस्सं ति हस्वस्वरं लघुशब्दमित्यर्थः, पाठान्तरेण उप्पित्थं श्वासयुक्तम् ३, उत्तालम् उत् प्राबल्यार्थे इत्यतितालमस्थानतालं वा, तालस्तु कंशिकादिशब्दविशेष इति ४, काकस्वरं श्लक्ष्णाश्रव्यस्वरम्, अनुनासं च सानुनासिकं
नासिकाकृतस्वरमित्यर्थः, किमित्याह- गायन् गानप्रवृत्तस्त्वं हे गायन ! मा गासी:, 10 किमिति ?, यत एते गेयस्य षट् दोषा इति ।
अष्टौ गुणानाह– पुन्नं गाहा, पूर्ण स्वरकलाभि: १, रक्तं गेयरागेणानुरक्तस्य २, अलङ्कृतमन्यान्यस्वरविशेषाणां स्फुटशुभानां करणात् ३, व्यक्तमक्षरस्वरस्फुटकरणत्वात् ४, अविघुटुं विक्रोशनमिव यन्न विस्वरम् ५, मधुरं मधुरस्वरं कोकिलारुतवत् ६,
समं ताल-वंशस्वरादिसमनुगतम् ७, सुकुमारं ललितं ललतीव यत् स्वरघोलनाप्रकारेण 15 शब्दस्पर्शनेन श्रोत्रेन्द्रियस्य सुखोत्पादनाद्वेति ८, एभिरष्टाभिर्गुणैर्युक्तं गेयं भवति, अन्यथा
विडम्बना । किञ्चान्यत्- उर गाहा, उर:-कण्ठ-शिर:सु प्रशस्तं विशुद्धम्, अयमर्थःयधुरसि स्वरो विशालस्तत उरोविशुद्धम्, कण्ठे यदि स्वरो वर्तितोऽस्फुटितश्च तत: कण्ठविशुद्धम्, शिरसि प्राप्तो यदि नानुनासिकस्तत: शिरोविशुद्धम्, अथवा उर:
कण्ठ-शिर:सु श्लेष्मणा अव्याकुलेषु विशुद्धेषु प्रशस्तेषु यत्तत्तथेति, चकारो 20 गेयगुणान्तरसमुच्चये, गीयते उच्चार्यते गेयमिति सम्बध्यते, किंविशिष्टमित्याह- मृदुकं
मधुरस्वरं रिभितं यत्राक्षरेषु घोलनया संचरन् स्वरो रङ्गतीव, घोलनाबहुलमित्यर्थः, पदबद्धं गेयपदैर्निबद्धमिति, पदत्रयस्य कर्मधारयः, समतालपडुक्खेवं ति समशब्द: प्रत्येकं सम्बध्यते, तेन समास्ताला हस्तताला उपचारात् तद्रवो यस्मिंस्तत् समतालं तथा सम: प्रत्युत्क्षेप: प्रतिक्षेपो वा मुरज-कंशिकाद्यातोद्यानां यो ध्वनिस्तल्लक्षण: १. “अक्षरस्वरस्फुटकरणाद् व्यक्तम्' इति अनुयोगद्वारस्य [सू० २६०] हे० वृत्तौ पृ० ३१४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org