SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे भाषाप्रस्तावाद् भाषाभेदानाह - चत्तारि भासेत्यादि, जातम् उत्पत्तिधर्म्मकम्, तच्च व्यक्तिवस्तु, अतो भाषाया जातानि व्यक्तिवस्तूनि भेदा: प्रकाराः भाषाजातानि, तत्र सन्तो मुनयो गुणाः पदार्था वा, तेभ्यो हितं सत्यमेकं प्रथमं सूत्रक्रमापेक्षया, भाष्यते सा तया वा भाषणं वा भाषा काययोगगृहीतवाग्योग निसृष्टभाषाद्रव्यसंहतिः तस्या जातं 5 प्रकारो भाषाजातम् ‘अस्त्यात्मे' त्यादिवत्, द्वितीयं सूत्रक्रमादेव मोसं ति प्राकृतत्वान्मृषा अनृतं ‘नास्त्यात्मे’त्यादिवतु, तृतीयं सत्यमृषा तदुभयस्वभावम् ‘आत्माऽस्त्यकर्ते’त्यादिवत्, चतुर्थमसत्यमृषा अनुभयस्वभावं 'देही' त्यादिवदिति, भवतश्चात्र गाथे ३१० सच्चा हिया सतामिह संतो मुणओ गुणा पयत्था वा । तव्विवरीया मोसा मीसा जा तदुभयसहावा ॥ १ ॥ अहिगया जातीसु वि सद्दो च्चिय केवलो असच्चमुसा । एया सभेयलक्खण सोदाहरणा जहा सुते ||२|| [विशेषाव० ३७६-३७७] त्ति [सू० २३९] चत्तारि वत्था पन्नत्ता, तंजहा - सुद्धे णामं एगे सुद्धे १, सुद्धे मंगे असुद्धे २, असुद्धे णामं एगे सुद्धे ३, असुद्धे णामं एगे असुद्धे 15 ४। एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा - सुद्धे णामं एगे सुद्धे, चउभंगो ४ । एवं परिणत -रूवे वत्था सपडिवक्खा । चत्तारि पुरिसजाता पन्नत्ता, तंजहा - सुद्धे णामं एगे सुद्धमणे, चउभंगो ४। एवं संकप्पे जाव परक्कमे । 10 [टी०] पुरुषभेदनिरूपणायैवेयं त्रयोदशसूत्री चत्तारि वत्थेत्यादि स्पष्टा, नवरं शुद्धं 20 वस्त्रं निर्मलतन्त्वादिकारणारब्धत्वात् पुनः शुद्धमागन्तुकमलाभावादिति, अथवा पूर्वं शुद्धमासीदिदानीमपि शुद्धमेव, विपक्षौ सुज्ञानावेवेति, अथ दाष्टन्तिकयोजना एवमेवेत्यादि, शुद्ध जात्यादिना पुनः शुद्धो निर्मलज्ञानादिगुणतया कालापेक्षया वेति चउभंगो त्ति चत्वारो भङ्गाः समाहृताः चतुर्भङ्गी चतुर्भङ्गं वा, पुल्लिङ्गता चात्र प्राकृतत्वात्, तदयमर्थः– वस्त्रवच्चत्वारो भङ्गाः पुरुषेऽपि वाच्या इति । एवमिति यथा शुद्धात् शुद्धपदे 25 परे चतुर्भङ्गं सदाष्टन्तिकं वस्त्रमुक्तमेवं शुद्धपदप्राक्पदे परिणतपदे रूपपदे च चतुर्भङ्गानि १. °निसृष्टा भाषा जे२ ॥ २. 'मसत्यामृषा पासं० जे२ । ३. पृ०३०७ पं०५ अनुसारेण त्रयोदश सूत्राणि ज्ञेयानि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy