________________
[सू० २३७-२३८] चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः ।
३०९ अविपरीतस्वभाव औचित्येन फलादिसम्पादनादित्येकः, द्वितीये द्वितीयं पदं वङ्क इति वक्रः, फलादौ विपरीतः, तृतीये प्रथमपदं वक्रः कुटिलः, चतुर्थः सुज्ञानः, अथवा पूर्वम् ऋजुरवक्रः, पश्चादपि ऋजुः अवक्रोऽथवा मूले ऋजुरन्ते च ऋजुरित्येवं चतुर्भङ्गी कार्येत्येष दृष्टान्तः १, पुरुषस्तु ऋजुः अवक्रो बहिस्तात् शरीरगति-वाक्-चेष्टादिभिस्तथा ऋजुरन्तर्निज्यत्वेन सुसाधुवदित्येकः, तथा ऋजुस्तथैव वङ्क इति तु वक्रः अन्तर्मायित्वेन 5 मायिकारणवशप्रयुक्तार्जवभावदुःसाधुवदिति द्वितीयः, तृतीयस्तु कारणवशाद्दर्शितबहिरनार्जवोऽन्तर्निर्माय इति प्रवचनगुप्तिरक्षाप्रवृत्तसाधुवदिति, चतुर्थ उभयतो वक्रः, तथाविधशठवदिति, कालभेदेन वा व्याख्येयम् २ । __ अथ ऋजु- ऋजुपरिणत इत्यादिका एकादश चतुर्भङ्गिका लाघवार्थमतिदेशेनाहएवमित्यनेन ऋजुर्नाम ऋजुरित्यादिनोपदर्शितक्रमभङ्गकक्रमेण यथेति येन प्रकारेण, 10 परिणत-रूपादिविशेषणनवकविशेषिततयेत्यर्थः, उन्नत-प्रणताभ्यां परस्परं प्रतिपक्षभूताभ्यां गमः सदृशपाठः कृतः, तथा तेन प्रकारेण परिणतरूपादिविशेषिताभ्यामित्यर्थः, ऋजुवक्राभ्यामपि भणितव्यः, कियान् स इत्याहजाव परक्कमे त्ति, ऋजुवक्रवृक्षसूत्रात् त्रयोदशसूत्रं यावदित्यर्थः, तत्र च ऋजु २ ऋजुपरिणत २ ऋजुरूप २ लक्षणानि षट् सूत्राणि वृक्षदृष्टान्त-पुरुषदार्टान्तिकस्वरूपाणि, 15 शेषाणि तु मनःप्रभृतीनि सप्त अदृष्टान्तानीति १३ ।।
[सू० २३७] पडिमापडिवन्नस्स णमणगारस्स कप्पंति चत्तारि भासातो भासित्तए, तंजहा- जायणी, पुच्छणी, अणुन्नवणी, पुट्ठस्स वागरणी ।
[सू० २३८] चत्तारि भासाजाता पन्नत्ता, तैजहा- सच्चमेगं भासज्जातं, बीतियं मोसं, ततियं सच्चमोसं, चउत्थं असच्चमोसं ४ ।
[टी०] पुरुषविचार एवेदमाह- पडिमेत्यादि स्फुटम्, परं प्रतिमा भिक्षुप्रतिमा द्वादश समयप्रसिद्धास्ताः प्रतिपन्नः अभ्युपगतवान् यस्तस्य, याच्यतेऽनयेति याचनी पानकादेः दाहिसि मे एत्तो अन्नतरं पाणगजाय [ ] मित्यादिसमयप्रसिद्धक्रमेण, तथा प्रच्छनी मार्गादेः कथञ्चित् सूत्रार्थयोर्वा, तथा अनुज्ञापनी अवग्रहस्य, तथा पृष्टस्य केनाप्यर्थादेर्व्याकरणी प्रतिपादनीति । १. ऋजुः परिणत खं० । 'ऋजुः ऋजुपरिणतः' इति पाठोऽप्यत्र संभवेत् ॥ २. °भ्यां भणितव्यः जे१ खं०॥
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org