SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ आमुखम् अतस्तेषामपि चरणयोः वन्दनं विदधामि । परमोपकारिणी परमपूज्या विक्रमसंवत् २०५१ तमे वर्षे श्री सिद्धक्षेत्रे पालिताणानगरे पौषशुक्लदशम्यां दिवंगता शताधिकवर्षायुष्का मम माता साध्वीजीश्री मनोहरश्रीरिहलोकपरलोक-कल्याणकारिभिराशीर्वचनैर्निरन्तरं मम परमं साहायकं सर्वप्रकारैर्विधत्ते । लोलाडाग्रामे विक्रमसंवत् २०४० कार्तिकशुक्लद्वितीयादिने दिवंगतो ममान्तेवासी वयोवृद्धो देवतुल्यो मुनिदेवभद्रविजयः सदा मे मानसिकं बलं पुष्णाति ।। ___ ममातिविनीतोऽन्तेवासी मुनिधर्मचन्द्रविजयः तच्छिष्यः मुनिपुण्डरीकरत्नविजयः मुनिधर्मघोषविजयश्च अनेकविधेषु कार्येषु महद् महद् साहायकमनुष्ठितवन्तः । एवमेव मम मातुः साध्वीश्रीमनोहरश्रियः शिष्यायाः साध्वीश्रीसूर्यप्रभाश्रियः शिष्यया साध्वीश्रीजिनेन्द्रप्रभाश्रिया एतद्ग्रन्थसंशोधनसम्बन्धिषु सर्वकार्येषु प्रभूतं प्रभूतं साहायकमनुष्ठितम्। श्रीमहावीरजैनविद्यालयस्य कार्यवाहकैः महता द्रव्यव्ययेन साध्यस्य एतन्मुद्रणादिकस्य व्यवस्था स्वीकृता । अतस्तेभ्योऽपि भूयो भूयो धन्यवादान् वितरामि । एतेभ्यः सर्वेभ्यो भूयो भूयो धन्यवादा वितीर्यन्ते । देव-गुरुप्रणिपातपूर्वकं प्रभुपूजनम् परमकृपालूनां परमेश्वराणां देवाधिदेवश्री शर्खेश्वरपार्श्वनाथप्रभूणां परमोपकारिणां पूज्यपादानां पितृचरणानां सद्गुरुदेवानां मुनिराजश्री भुवनविजयजीमहाराजानां च कृपया साहाय्याच्चैव संपन्नं कार्यमिदमिति तेषां चरणेषु अनन्तशः प्रणिपातं विधाय अस्मिन् तीर्थे विराजमानस्य अत्यन्तं प्रभावशालिनः श्री नाकोडापार्श्वनाथस्य करकमलेऽद्य भक्तिभरनिभरण चेतसा भगवद्वचनात्मकमेव पुष्परूपमेतं ग्रन्थं निधाय अनन्तशः प्रणिपातपूर्वकं भगवन्तं श्री नाकोडापार्श्वनाथं महयाम्येतेन कुसुमेन । श्री जैन श्वेनाकोडा पार्श्वनाथ तीर्थ, इत्यावेदयतिP.O. मेवानगर, Via बालोतरा, पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकारजिला-बाडमेर, राजस्थान. पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरशिष्यविक्रम सं० २०५९, पूज्यपादसद्गुरुदेवमुनिराजश्रीभुवनविजयान्तेवासी पौषशुद्धदशमी, सोमवासरः, मुनि जम्बूविजयः (ता.१३-१-२००३) मातृस्वर्गवासदिवसः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy