SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ - श्री सिद्धाचलमण्डन-श्री ऋषभदेवस्वामिने नमः । श्री शान्तिनाथस्वामिने नमः । श्री शंखेश्वरपार्श्वनाथाय नमः । श्री नाकोडापार्श्वनाथाय नमः । श्री नाकोडाभैरववीराय नमः । श्री महावीरस्वामिने नमः । श्री गौतमस्वामिने नमः । पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्येभ्यो नमः । पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादपद्मेभ्यो नमः । पूज्यपादसद्गुरुदेवमुनिराजश्री भुवनविजयजीपादपद्मभ्यो नमः । आमुखम् । अनन्तोपकारिणां परमकृपालूनां जिनेश्वराणां परमकृपया परमोपकारिणां पितृचरणानां सद्गुरुदेवानां पूज्यपाद मुनिराजश्री भुवनविजयजीमहाराजानां च परमकृपया साहाय्येन च सम्पन्नं पू.आ.भ.श्री अभयदेवसूरिविरचितया वृत्त्या समलङ्कृतं चतुर्थ-पञ्चम-षष्ठाध्ययनात्मकं पञ्चमगणधरदेवश्री सुधर्मस्वामिपरम्परयाऽऽयातस्य श्री स्थानाङ्गसूत्रस्य द्वितीयविभागं जैनागमरसिकानां पुरतो विन्यस्यन्तो वयमद्यामन्दमानन्दमनुभवामः । यदत्र वक्तव्यं तत् प्रथमे विभागे उक्तप्रायम् । अवशिष्टं तु प्रायः सर्वमपि तृतीये विभागे सप्तमा-ऽष्टम-नवम-दशमाध्ययनात्मके वक्ष्यते। तृतीये विभागे एव स्थानाङ्गसूत्रं संपूर्णं भविष्यतीति आशास्महे । अत्र परिशिष्टत्रयमपि योजितमस्ति । तत्र प्रथमे परिशिष्टे ग्रन्थान्तरेभ्य आ.भ.श्रीअभयदेवसूरिभिरुद्धृतानां पाठानां ग्रन्थान्तरीयटीकाद्यनुसारेण विवरणं तुलनादिकं निर्दिष्टकथादिकं च उपन्यस्तम् । द्वितीये परिशिष्टेऽस्मिन् द्वितीये विभागे उद्धृतानां साक्षिपाठानां पृष्ठक्रमेण सूचिः, तृतीये च परिशिष्टे सम्पादनोपयुक्तग्रन्थसूचिः वर्तते । धन्यवादः- अस्य ग्रन्थस्य संशोधने सम्पादने च यतो यतः किमपि साहायकं लब्धं तेभ्यः सर्वेभ्यो भूयो भूयो धन्यवादान् वितरामि । विशेषतस्तु इमे सहायकाः- अस्या जैनागमग्रन्थमालायाः प्रकाशने बीजभूताः प्रेरकाश्च स्व० आगमप्रभाकरपूज्यमुनिराजश्री पुण्यविजयजीमहाभागाः । तैरेव च संशोधन-सम्पादनक्षेत्रेऽहं योजितः। अतः कृतज्ञभावेन विशेषेण तेषां चरणयोर्वन्दनं विदधामि । अनेकेभ्यो वर्षेभ्यः प्राक् आगमोद्धारकैराचार्यश्री सागरानन्दसूरिभिः महान् ग्रन्थराशिः महता महता परिश्रमेण जैनसंघस्य पुरस्ताद् मुद्रयित्वा उपन्यस्तः । समग्रोऽपि जैनसंघः तैरुपकृतः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy