________________
९४
प्रथमं परिशिष्टम्- टिप्पनानि
पाणातिवायादियाणं मूलगुणाणं जेण विराहणा भवति अतो रातीए ण भोत्तव्वं ॥३४१२॥
इमो पुणो अपिंडो- तण-डगल-छार-मल्लग, सेजा-संथार-पीढ-लेवादी । सेज्जातरपिंडेसो, ण होति सेहो व सोवधिउ ॥११५४॥ लेवादी, आदिसद्दातो कुडमुहादी, एसो सव्वो सेजातरपिंडो ण भवति । जति सेजायरस्स पुत्तो धूया वा वत्थपायसहिता पव्वएजा सो सेज्जातरपिंडो ण भवति ॥११५४॥"- निशीथ० चूर्णिः ।
“तण-डगल-छार-मल्लग-सेज्जा-संथार-पीढ-लेवादी । सेज्जातरपिंडो सो, ण होति सेहो य सोवहिओ ॥३५३५॥ तृण-डगल-क्षार-मल्लक-शय्या-संस्तारक-पीठ-लेपा आदिशब्दात् कुटमुखादिकं च एष शय्यातरपिण्डो न भवति । यदि च शय्यातरस्य पुत्रादिः शैक्षो वस्त्र-पात्रसहित: प्रव्रजितुमुपतिष्ठते तदा स सागारिकपिण्डो न भवति, अतः कल्पते सोपधिरप्यसौ प्रव्राजयितुम् ॥३५३५॥" - बृहत्कल्पटीका० ।
[पृ०५३६] “दोषानेवाह- तित्थयरप्पडिकुट्ठो अण्णायं उग्गमो वि य ण सुज्झे। अविमुत्ति यऽलाघवया दुल्लहसेज विउच्छेओ ॥१७/१८॥ व्या० तीर्थकरैः प्रतिक्रुष्टो जिनैर्निषिद्धः । शय्यातरपिण्ड इति प्रकृतम् । कस्मादेवमित्याह- अज्ञातस्याविदितस्य राजादिप्रव्रजितत्वेन यद्भेक्ष्यं तदज्ञातमुच्यते। तदेव प्रायः साधुना ग्राह्यम् ‘अन्नाय उंछं चरइ विसुद्धं' [दशवै०९।३।४] इति वचनात् । तच्चासन्ननिवासादतिपरिचयेन ज्ञातस्वरूपशय्यातरगृहे पिण्डं गृह्णतो न शुध्यतीति योगः । तथा उद्गमः कल्पनीयभक्तादिभवनम् । अपिचेति समुच्चये । न शुध्यति न शुद्धो भवति, शय्यातरपिण्डग्रहणे सति । कथम् ? बाहुल्ला गच्छस्स उ पढमालयपाणयाइकजेसु । सज्झायकरण आउट्टियाकरे उग्गमेगयरं ॥१॥ [बृहत्कल्प०३५४३], तथाऽविमुक्तिः सलोभता । तत एव वा शय्यातरकुलस्यामोचनम् । आह च- भावे उक्कोसपणीयगेहिओ तं कुलं न छड्डेइ । पाणाईकजेसु य गओ वि दूरं पुणो एइ ॥१॥ [बृहत्कल्प०३५४५],तथा अविद्यमानं लाघवं लघुता यस्य स तथा तद्भावोऽलाघवता । तत्र विशिष्टाहारलाभेनोपचितत्वाच्छरीरालाघवं शय्यातरात्तत्परिजनाच्चोपधि-लाभादुपधेरनल्पतया तदलाघवमिति । तथा दुर्लभाऽसुलभा शय्या च वसतिः कृता भवति, येन किल शय्या देया तेनाहाराद्यपि देयमित्येवं गृहिणां भयोत्पादनात् । तथा व्यवच्छेदो विनाशः दानभयाच्छय्याया: शय्यातरेण क्रियते, वसत्यभावाद्वा भक्तपानशिष्यादिव्यवच्छेदः स्यादिति ॥१८॥ ___ पडिबंधनिरागरणं केई अणे अगहियगहणस्स । तस्साउंटणमाणं एत्थवरे बेंति भावत्थं ॥१७/१९॥ व्या० प्रतिबन्धनिराकरणं साधुशय्यातरयोर्योऽत्यन्तोपकार्योपकारकभावेन स्नेहस्तन्निरासं केचिदाचार्या भावार्थं ब्रुवन्तीति योगः । अन्ये पुनराचार्याः । अगृहीतग्रहणस्य साधुभिरस्वीकृतभक्तादिदातव्यद्रव्यस्य । तस्य शय्यातरस्य । आकुंटनमावर्जनम् ‘अहो निःस्पृहा एतेऽतो वसत्यादिदानतः पूज्या' इतिभावोत्पादनात् । तथा आज्ञामाप्तोपदेशम् । अत्र शय्यातरपिण्डपरिहारे। अपरेऽन्ये । ब्रुवन्त्याहुः भावार्थं तात्पर्यमिति ॥१७/१९॥" - पञ्चाश० अभय० टीका ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org