________________
प्रथमं परिशिष्टम्- टिप्पनानि
अ जीवेसु । परलोअमई अ तहा बहुमाणो चेव अन्नेसिं ॥२॥ हिस्संगया य पच्छापुरकम्मविवजणं च लोअगुणा । दुक्खसहत्तं नरगादिभावणाए य निव्वेओ ॥३॥ [ ] तथाऽन्यैरप्युक्तम्- पश्चात्कर्म पुरःकर्मे(र्म ई)र्यापथपरिग्रहः । दोषा ह्येते परित्यक्ताः, शिरोलोचं प्रकुर्वता ॥१॥ इत्यादि । गतः कायक्लेशः, साम्प्रतं संलीनतोच्यते इयं चेन्द्रियसंलीनतादिभेदाच्चतुर्विधेति, उक्तं च- इंदिअकसायजोए पडुच्च संलीणया मुणेयव्वा । तहय विवित्ता चरिआ पण्णत्ता वीअरागेहिं ॥१॥ तत्र श्रोत्रादिभिरिन्द्रियैः शब्दादिषु सुन्दरेतरेषु रागद्वेषाकरणमिन्द्रियसंलीनतेति, उक्तं च- सद्देसु अ भद्दयपावएसु सोअविसयमुवगएसु। तुट्टेण व रुट्टेण व समणेण सया ण होअव्वं ॥१॥ एवं शेषेन्द्रियेष्वपि वक्तव्यम्, यथा- 'रूवेसु अ भद्दगपावएसु' इत्यादि । उक्तेन्द्रियसँल्लीनता, अधुना कषायसंलीनता- सा च तदुदयनिरोधोदीर्णविफलीकरणलक्षणेति, उक्तं च- उदयस्सेव निरोहो उदयं पत्ताण वाऽफलीकरणं । जं इत्थ कसायाणं कसायसंलीनता एसा ॥१॥ [ ] इत्यादि, उक्ता कषायसंलीनता, साम्प्रतं योगसंलीनता-सा पुनर्मनोयोगादीनामकुशलानां निरोधः कुशलानामुदीरणमित्येवंभूतेति, उक्तं चअपसत्थाण निरोहो जोगाणमुदीरणं च कुसलाणं । कजम्मि य विहिगमणं जोए संलीणया भणिआ ॥१॥ [ ] इत्यादि । उक्ता योगसंलीनता, अधुना विविक्तचर्या, सा पुनरियम्- ‘आरामुज्जाणादिसु थीपसुपंडगविवज्जिएसु जं ठाणं । फलगादीण य गहणं तह भणियं एसणिज्जाणं ॥१॥' [ . ] गता विविक्तचर्या, उक्ता संलीनता । बज्झो तवो होही इति एतदनशनादि बाह्यं तपो भवति, लौकिकैरप्यासेव्यमानं ज्ञायत इति कृत्वा बाह्यमित्युच्यते विपरीतग्राहेण वा कुतीर्थिकैरपि क्रियत इतिकृत्वा इति गाथार्थः ॥४७॥
उक्तं बाह्यं तपः, इदानीमाभ्यन्तरमुच्यते । तच्च प्रायश्चित्तादिभेदमिति, आह च- पायच्छित्तं विणओ वेआवच्चं तहेव सज्झाओ । झाणं उस्सग्गोऽवि अ अभिंतरओ तवो होइ ॥४८॥ व्या० तत्र पापं छिनत्तीति पापच्छित्, अथवा यथावस्थितं प्रायश्चित्तं शुद्धमस्मिन्निति प्रायश्चित्तमिति, उक्तं च- पावं छिंदइ जम्हा पायच्छित्तं ति भण्णए तम्हा । पाएण वावि चित्तं विसोहई तेण पच्छित्तं ॥१॥ तत्पुनरालोचनादि दशधेति, उक्तं च- आलोयणपडिक्कमणे मीसविवेगे तहा विउस्सग्गे । तवछेअमूलअणवठ्ठया य पारंचिए चेव ॥१॥ [आव० नि० १४३२], भावार्थोऽस्या आवश्यकविशेषविवरणादवसेय इति । उक्तं प्रायश्चित्तम्, साम्प्रतं विनय उच्यते- तत्र विनीयतेऽनेनाष्टप्रकारं कर्मेति विनय इति, उक्तं च- विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिर्विरतिफलं चाश्रवनिरोधः ॥१॥ संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् । तस्मात् क्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥२॥ योगनिरोधाद्भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः ॥३॥ [प्रशम० ७२-७४] स च ज्ञानादिभेदात् सप्तधा, उक्तं च- णाणे दंसणचरणे मणवइकाओवयारिओ विणओ । णाणे पंचपगारो मइणाणाईण सद्दहणं ॥१॥ भत्ती तह बहुमाणो तद्दिद्रुत्थाण सम्मभावणया । विहिगहणब्भासोवि अ एसो विणओ जिणाभिहिओ ॥२॥ सुस्सूसणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org