________________
प्रथमं परिशिष्टम् - टिप्पनानि
व्यक्तोच्छ्वासनिश्वासादिजीवलिङ्गलद्भावः, यथा घटे, न च तथैतेष्वसद्भाव इति, तस्माज्जीवा एवैत इति, अत्रात्मनोऽपि तद्रूपाऽऽपत्त्यात्मोपन्यासत्वं भावनीयमिति । उदाहरणदोषता चास्यात्मोपघातजनकत्वेन प्रकटार्थैवेति न भाव्यते । गतमात्मोपन्यासद्वारम् अधुना दुरुपनीतद्वारं व्याचिख्यासुराह - अत्रानिमिषा मत्स्यास्तद्ग्रहणे भिक्षुरुदाहरणम्, इदं च लौकिकम्, अनेन चोक्तन्यायाल्लोकोत्तरमप्याक्षिप्तं वेदितव्यमिति गाथादलाक्षरार्थः ॥ भावार्थः कथानकादवसेयः, तच्चेदम्- किल कोइ तच्चणिओ जालवावडकरो मच्छगवहाए चलिओ, धुत्तेण भण्णइ - आयरिय ! अघणा ते कंथा, सो भणइ जालमेतमित्यादि श्लोकादवसेयम्- 'कन्थाऽऽचार्याघना ते ननु शफरवधे जालमश्नासि मत्स्यान् ?, ते मे मद्योपदंशान् पिबसि ननु ? युतो वेश्यया यासि वेश्याम् ? | कृत्वाऽरीणां गलें ही क्व नु तव रिपवः ? येषु सन्धिं छिनद्मि, चौरस्त्वम् ? द्यूतहेतोः कितव इति कथम् ? येन दासीसुतोऽस्मि ||१|| इदं लौकिकम्, चरणकरणानुयोगे तु - इय सासणस्सऽवण्णो जायइ जेणं न तारिसं बूया । वादेव उवहसज्जइ निगमणओ जेण तं जेव ॥ १ ॥ उदाहरणदोषता पुनरस्य स्पष्टैवेति ॥” दशवै० हारि० ॥
६२
[ पृ०४४४ ] " तुज्झ पिया मह पिउणो धोरइ अणूणयं पडिनिभंमि । गाथादलम् । अस्य व्याख्या - तव पिता मम पितुर्धारयत्यनूनं शतसहस्त्रमित्यादि गम्यते । प्रतिनिभ इति द्वारोपलक्षणम्, अयमक्षरार्थः, भावार्थः कथानकादवसेयः, तच्चेदम् - एगम्मि नगरे एगो परिव्वायगो सोवण्णएण खोरण तहिं हिंडइ, सो भणइ - जो मम असुयं सुणावेइ तस्स एयं देमि खोरयं, तत्थ एगो सावओ, ते भणिअं - तुज्झ पिया मम पिउणो धारेइ अणूणयं सयसहस्सं । जड़ सुयपुव्वं दिज्जउ अह न सुयं खोरयं देहि ।।१।। इदं लौकिकम्, अनेन च लोकोत्तरमपि सूचितमवगन्तव्यम्, तत्र चरणकरणानुयोगे येषां सर्वथा हिंसायामधर्मः तेषां विध्यनशनविषयोद्रेकचित्तभङ्गादात्महिंसायामपि अधर्म एवेति तदकरणम् । द्रव्यानुयोगे पुनरदुष्टं मद्वचनमिति मन्यमानो यः कश्चिदाह - 'अस्ति जीव' इति, अत्र वद किञ्चित्, स वक्तव्यो यद्यस्ति जीवः एवं तर्हि घटादीनामप्यस्तित्वाज्जीवत्वप्रसङ्ग इति । गतं प्रतिनिभम्, अधुना हेतुमाह- किं नु जवा किज्जंते ? जेण मुहाए न लब्भंति ॥ ८६ ॥ | व्या० किं नु यवाः क्रीयन्ते ?, येन मुधा न लभ्यन्त इत्यक्षरार्थः । भावार्थस्त्वयम् - कोवि गोधो जवे किणाइ, सो अन्त्रेण पुच्छिज्जइकिं जवे किणासि ?, सो भणइ - जेण मुहियाए ण लब्भामि । लौकिकमिदं हेतूपन्यासोदाहरणम्, अनेन च लोकोत्तरमप्याक्षिप्तमवगन्तव्यम्, तत् चरणकरणानुयोगे तावत् यद्याह विनेयः किमितीयं भिक्षाटनाद्याऽतिकष्टा क्रिया क्रियते ?, स वक्तव्यो - येन नरकादिषु न कष्टतरा वेदना वेद्यत इति । द्रव्यानुयोगे तु यद्याह कश्चित् किमित्यात्मा न चक्षुरादिभिरुपलभ्यते ?, स वक्तव्यो - येनातीन्द्रिय इति । गतं हेतुद्वारकम्, तदभिधानाच्चोपन्यासद्वारम्, तदभिधानाच्चोदाहरणद्वारमिति ॥ ८६ ॥ " दशवै० हारि० ॥
-
Jain Education International
[पृ० ४४५] “सांप्रतं हेतुलक्षणं स्मारयन् तदपास्तान् हेत्वाभासानाह- अन्यथानुपपन्नत्वं हेतोर्लक्षणमीरितम् । तदप्रतीतिसंदेहविपर्यासैस्तदाभता ॥ २२॥ हेतोर्लक्षणमसाधारणधर्मरूपं यदीरितं
For Private & Personal Use Only
-
www.jainelibrary.org