________________
प्रथमं परिशिष्टम्- टिप्पनानि सूचितमवगन्तव्यम्, एकग्रहणे तज्जातीयग्रहणम् [ ] इति न्यायात् । तत्र चरणकरणानुयोगेन णेवं अहम्मजुत्तं कायव्वं किंचि भाणियव्वं वा । थोवगुणं बहुदोसं विसेसओ ठाणपत्तेणं ॥१॥ जम्हा सो अन्नेसिपि आलंबणं होइ । द्रव्यानुयोगे तु- वादम्मि तहारूवे विजाय बलेण पवयणट्ठाए । कुजा सावजं पिहु जह मोरीणउलिमादीसु ॥१॥ सो परिवायगो विलक्खीकओ त्ति । उदाहरणदोषता चास्याधर्मयुक्तत्वादेव भावनीयेति । गतमधर्मयुक्तद्वारम्, अधुना प्रतिलोमद्वारावयवार्थव्याचिख्यासयाऽऽह__पडिलोमे जह अभओ पजोयं हरइ अवहिओ संतो। गोविंदवायगोऽविय जह परपक्खं नियत्तेइ ॥८२॥ व्या० प्रतिलोमे उदाहरणदोषे यथा अभय: अभयकुमारः प्रद्योतं राजानं हृतवान् अपहृतः सन्निति, एतद् ज्ञापकम्, इह च त्रिकालगोचरसूत्रप्रदर्शनार्थो वर्तमाननिर्देश इत्यक्षरार्थः । भावार्थ: कथानकादवसेयः, तच्च यथाऽऽवश्यके शिक्षायां तथैव द्रष्टव्यमिति । एवं तावल्लौकिकं प्रतिलोमम्, लोकोत्तरं तु द्रव्यानुयोगमधिकृत्य सूचयन्नाह- गोविंदेत्यादि गाथादलम्, अनेन चरणकरणानुयोगमप्यधिकृत्य सूचितमवगन्तव्यम्, आद्यन्तग्रहणे तन्मध्यपतितस्य तद्ग्रहणेनैव ग्रहणात्, तत्र चरणकरणे णो किंचि य पडिलोमं कायव्वं भवभवए मण्णेसिं । अविणीयसिक्खगाण उ जयणाइ जहोचिअं कुजा ॥१॥ द्रव्यानुयोगे तु गोपेन्द्रवाचकोऽपि च यथा परपक्षं निवर्त्तयतीत्यर्थः । सो य किर तच्चण्णिओ आसि, विणा[ण्णा] सणणिमित्तं पव्वइओ, पच्छा भावो जाओ, महावादी जात इत्यर्थः। सूचकमिदम्, अत्र च- ‘दव्वट्ठियस्स पज्जवणयट्ठियमेयं तु होइ पडिलोमं । सुहदुक्खाइअभावं इयरेणियरस्स चोइज्जा ॥१॥ अण्णे उ दुट्टवादिम्मि, किंचि बूया य किल पडिकूलं । दोरासिपइण्णाए तिण्णि जहा पुच्छ पडिसेहो ॥२॥ उदाहरणदोषता त्वस्य प्रथमपक्षे साध्यार्थासिद्धेः, द्वितीयपक्षे तु शास्त्रविरुद्धभाषणादेव भावनीयेति गाथार्थः ॥ ___ अत्तउवन्नासंमि य तलागभेयंमि पिंगलो थवई । अणिमिसगिण्हण भिक्खुग दुरुवणीए उदाहरणं ॥८३॥ व्या० आत्मन एवोपन्यासो निवेदनं यस्मिंस्तदात्मोपन्यासं तत्र च तडागभेदे पिङ्गलस्थपति: उदाहरणमित्यक्षरार्थः ॥ भावार्थः कथानकगम्यः, तच्चेदम्- इह एगस्स रण्णो तलागं सव्वरजस्स सारभूअं, तं च तलागं वरिसे वरिसे भरियं भिज्जइ, ताहे राया भणइ-को सो उवाओ होज्जा ? जेण तं न भिज्जेज्जा, तत्थ एगो कविलओ मणूसो भणइ-जइ नवरं महाराय ! इत्थ पिंगलो कविलियाओ से दाढियाओ सिरं से कविलियं सो जीवंतो चेव जंमि ठाणे भिज्जइ तंमि ठाणे णिक्खमइ, तो णवरं ण भिज्जइ, पच्छा कुमारामच्चेण भणियं- महाराय ! एसो चेव एरिसो जारिसयं भणइ, एरिसो णत्थि अन्नो, पच्छा सो तत्थेव मारेत्ता निक्खित्तो । एवं एरिसं न भाणियव्वं जं अप्पवहाए भवइ । इदं लौकिकम्, अनेन च लोकोत्तरमपि सूचितम्, एकग्रहणे तज्जातीयग्रहणात्, तत्र चरणकरणानुयोगे नैवं ब्रूयात् यदुत- लोइयधम्माओविहु जे पन्भट्ठा णराहमा ते उ । कह दव्वसोयरहिया धम्मस्साराहया होंति ?॥१॥ इत्यादि । द्रव्यानुयोगे पुनरेकेन्द्रिया जीवाः, व्यक्तोच्छ्वासनिश्वासादिजीवलिङ्गसद्भावात्, घटवत्, इह ये जीवा न भवन्ति न तेषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org