________________
प्रथमं परिशिष्टम्- टिप्पनानि यथा स्पर्शनेन, प्रदीपस्तु नान्तःकरणमात्मनः, तस्माद् दृष्टान्तदाान्तिकयोर्वैषम्यमित्यलं विस्तरेण, प्रकृतं प्रस्तुम इति गाथार्थः ॥५॥" - आव० हारि० ॥
[पृ० ४३३] “साध्येनानुगमो हेतोः साध्याभावे च नास्तिता । ख्याप्यते यत्र दृष्टान्तः स साधर्म्यतरो द्विधा ॥४२॥ साध्येनानुगमो हेतोरिति साध्यशब्दोऽत्र जिज्ञासिते धर्ममात्रे वर्तते। अनुगमो हेतोरन्वयः, यत्र हेतुस्तत्र साध्यस्य भाव एव न तु सद्भावमात्रम् । साध्येनैव हेतोः, न हेतुना साध्यस्य। साध्याभावे च नास्तिता साध्याभाव एव हेतो स्तिता, न हेत्वभावे साध्यस्य, नापि तद्विपक्षयोः सहभावित्वमानं नास्तितेति । नास्तिशब्दोऽत्र वा(बा?)ह्यस्वरूपं शब्दान्तरम् अभाववाचि प्रातिपदिकं द्रष्टव्यम् । स साधर्येतर इति साधर्म्यदृष्टान्तो वैधर्म्यदृष्टान्तश्चेत्यर्थः । काणकुण्टिा?]दिवत् विशेषणसमासः। अथवा सह साधर्म्यण इतरेण च ससाधर्म्यतर इतेवद् [इति वा] बहुव्रीहिः, अत्र तु व्याख्याने स इत्येतत् सर्वनामपदमनुक्तमपि यत्तदोर्नित्याभिसम्बन्धात् लभ्यते। सर्वत्र गमोऽनुगम इत्यनेन अनुशब्दोऽत्र व्याप्तिं दर्शयति । यत्र इत्यभिधेय इति अनेनार्थस्य दृष्टान्ततामाह । वचनं तु तदभिधायित्वात् उपचारेण दृष्टान्तः, एतच्च दृष्टान्तेन प्रदर्श्यत इत्यनेन प्रागेवावेदितम् ।” इति प्रमाणसमुच्चयस्य विशालामलवत्यां टीकायाम् । ___“जह तुब्भे तह अम्हे तुब्भे वि अ होहिहा जहा अम्हे । अप्पाहेइ पडतं पंडुरपत्तं किसलयाणं ॥नि.३०८॥ यथा इति सादृश्ये, ततो यथा यूयं सम्प्रति किशलयभावमनुभवथ स्निग्धादिगुणैर्गर्वमुद्वहत्थ अस्मानुपहसथ, तथा वयमप्यतीतदशायाम्, तथा यूयमपि च भविष्यथ यथा वयमिति, जीर्णभावे हि यथा वयमिदानीं विवर्णविच्छायतयोपहास्यानि, एवं यूयमपि भावीनीति, अप्पाहेइत्ति उक्तन्यायेनोपदिशति पितेव पुत्रस्य पतत् भ्रश्यत् पाण्डुरपत्रं जीर्णपत्रं किसलयानाम् अभिनवपत्राणाम् ॥३०८॥" - उत्तरा० पाईय० ॥
[पृ०४३५] “चरिअं च कप्पिअं वा दुविहं तत्तो चउब्विहेक्केक्कं । आहरणे तद्देसे तद्दोसे चेवुवन्नासे ॥५३॥ व्या० चरितं च कल्पितं चे(वे)ति द्विविधमुदाहरणम्, तत्र चरितमभिधीयते यद् वृत्तम्, तेन कस्यचिद् दार्टान्तिकार्थप्रतिपत्तिर्जन्यते, तद्यथा- दुःखाय निदानम्, यथा ब्रह्मदत्तस्य। तथा कल्पितं स्वबुद्धिकल्पनाशिल्पनिर्मितमुच्यते, तेन च कस्यचिद्दान्तिकार्थप्रत्तिपत्तिर्जन्यते, यथापिष्पलपत्रैरनित्यतायामिति, उक्तं च- जह तुन्भे तह अम्हे तुब्भे वि अ होहिहा जहा अम्हे । अप्पाहेइ पडतं पंडुअपत्तं किसलयाणं ॥१॥ णवि अत्थि णवि अ होही उल्लावो किसलपंडुपत्ताणं । उवमा खलु एस कया भविअजणविबोहणट्ठाए ॥२॥ [उत्तरा०नि० ३०१-३०२] इत्यादि । आह- इदमुदाहरणं दृष्टान्त उच्यते, तस्य च साध्यानुगमादि लक्षणमिति, उक्तं च- साध्येनानुगमो हेतोः, साध्याभावे च नास्तिता । ख्याप्यते यत्र दृष्टान्तः स साधर्म्यतरो द्विधा ॥१॥ [प्रमाणसमु०४।२] अस्य पुनस्तल्लक्षणाभावात् कथमुदाहरणत्वमिति ?, अत्रोच्यते, तदपि कथञ्चित् साध्यानुगमादिना दार्टान्तिकार्थप्रतिपत्तिजनकत्वात् फलत उदाहरणम्, इहापि च साऽस्त्येवेति कृत्वा किं नोदाहरणतेति ?।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org