________________
५०
प्रथमं परिशिष्टम्- टिप्पनानि जघन्येनाङ्गुलसंख्येयभागमात्रावस्थितं पश्यति, उत्कृष्टतस्तु योजनशतसहस्राभ्यधिकव्यवस्थितम् इति, घ्राणरसनस्पर्शनानि तु जघन्येनाङ्गुलासंख्येयभागमात्राद्देशादागतं गन्धादिकं गृह्णन्ति, उत्कृष्टतस्तु नवभ्यो योजनेभ्य इति । आत्मागुलनिष्पन्नं चेह योजनं ग्राह्यमिति । आह- उक्तप्रमाणं विषयमुल्लङ्ध्य कस्माच्चक्षुरादीनि रूपादिकमर्थं न गृह्णन्तीति, उच्यते, सामर्थ्याभावात्, द्वादशभ्यो नवभ्यश्च योजनेभ्यः परतः समागतानां शब्दादिद्रव्याणां तथाविधपरिणामाभावाच्च, मनसस्तु न क्षेत्रतो विषयपरिमाणमस्ति, पुद्गलमात्रनिबन्धनाभावात्, इह यत् पुद्गलमात्रनिबन्धनियतं न भवति, न तस्य विषयपरिमाणमस्ति, यथा केवलज्ञानस्य, यस्य च विषयपरिमाणमस्ति, तत्पुद्गलमात्रनिबन्धनियतं दृष्टम्, यथाऽवधिज्ञानं मनःपर्यायज्ञानं वेति गाथासमासार्थः ॥ ___ साम्प्रतं यदुक्तमासीत् यथा नयनमनसोरप्राप्तकारित्वं ‘पुढे सुणेइ सदं' इत्यत्र वक्ष्यामः, तदुच्यते, नयनं योग्यदेशावस्थिताप्राप्तविषयपरिच्छेदकम्, प्राप्तिनिबन्धनतत्कृतानुग्रहोपघातशून्यत्वात्, मनोवत्, स्पर्शनेन्द्रियं विपक्ष इति । आह- जल-घृत-वनस्पत्यालोकनेष्वनुग्रहसद्भावात् सूर्याद्यालोकनेषु चोपघातसद्भावात् असिद्धो हेतुः, मनसोऽपि प्राप्तविषयपरिच्छेदकत्वात्साध्यविकलो दृष्टान्तः, तथा च लोके वक्तारो भवन्ति-अमुत्र मे गतं मनः इति, अत्रोच्यते, प्राप्तिनिबन्धनाख्यहेतुविशेषणार्थनिराकृतत्वाद् अस्याक्षेपस्येत्यदोषः । किं च- यदि हि प्राप्तिनिबन्धनौ विषयकृतावनुग्रहोपघातौ स्याताम्, एवं तर्हि अग्नि-शूल जलाद्यालोकनेषु दाह-भेद-क्लेदादयः स्युरिति । किं च- प्राप्तविषयपरिच्छेदकत्वे सति अक्षि अञ्जन-मल-शलाकादिकमपि गृह्णीयात् । आह- नायना मरीचयो निर्गत्य तमर्थं गृह्णन्ति, ततश्च तेषां तैजसत्वात् सूक्ष्मत्वाच्चानलादिसंपर्के सत्यपि दाहाद्यभाव इति, अत्रोच्यते, प्राक् प्रतिज्ञातयोरनुग्रहोपघातयोरप्यभावप्रसङ्गाद् अयुक्तमेतत्, तदस्तित्वस्य उपपत्त्या ग्रहीतुमशक्यत्वाच्च । व्यवहितार्थानुपलब्ध्या तदस्तित्वावसाय इति चेत्, न, तत्रापि तदुपलब्धौ क्षयोपशमाभावात् व्यवहितार्थानुपलब्धिसिद्धेः । आगममात्रमेवैतत् इति चेत्, न, युक्तिरप्यस्ति, आवरणाभावेऽपि परमाण्वादौ दर्शनाभावः, स च तद्विधक्षयोपशमकृतः, यच्चोक्तम्- साध्यविकलो दृष्टान्त इति, तदप्ययुक्तम्, ज्ञेयमनसोः संपर्काभावात्, अन्यथा हि सलिल-कर्पूरादिचिन्तनादनुगृह्येत, वह्निशस्त्रादिचिन्तनाच्चोपहन्येत, न चानुगृह्यते उपहन्यते वेति । आह- मनसोऽनिष्टविषयचिन्तनातिशोकात् दौर्बल्यं आर्तध्यानादुरोऽभिघातश्च उपलभ्यते, तथेष्टविषयचिन्तनात्प्रमोदः, तस्मात्प्राप्तकारिता तस्येति, एतदप्ययुक्तम्, द्रव्यमनसा अनिष्टेष्टपुद्गलोपचयलक्षणेन सकर्मकस्य जन्तोरनिष्टेष्टाहारेणेवोपघातानुग्रहकरणात्कथं प्राप्तविषयतेति । किं च- द्रव्यमनो वा बहिः निस्सरेत्, मनःपरिणामपरिणतं जीवाख्यं भावमनो वा ?, न तावद्भावमनः, तस्य शरीरमात्रत्वात्, सर्वगतत्वे च नित्यत्वात् बन्धमोक्षाद्यभावप्रसङ्गः । अथ द्रव्यमनः, तदप्ययुक्तम्, यस्मान्निर्गतमपि सत् अकिञ्चित्करं तत्, अज्ञत्वात्, उपलवत् । आहकरणत्वाद् द्रव्यमनसस्तेन प्रदीपेनेव प्रकाशितमर्थमात्मा गृह्णातीत्युच्यते, न, यस्मात् शरीरस्थेनैवानेन जानीते, न बहिर्गतेन, अन्तःकरणत्वात्, इह यदात्मनोऽन्तःकरणं स तेन शरीरस्थेनैव उपलभते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org