________________
प्रथमं परिशिष्टम्- टिप्पनानि [पृ०४११] “सातसियं इयरं वा अन्नगणच्चे न देयमज्झयणं । इइ गणसंठितितो करेंति सच्छंदतो केई ॥१०॥४५८२॥ पत्ते देंतो पढमो बितितो भंगो न कस्सइ वि देतो । जो पुण अपत्तदायी तइओ भंगो उ तं पप्प ॥१०॥४५८३॥ सयमेव दिसाबंध काऊण पडिच्छगस्स जो देइ । उभयमवलंबमाणं कामं तु तगं पि पुजामो ॥१०॥४५८४॥ सातिशयं देवेन्द्रोपपातिकादि इतरद्वा महाकल्पश्रुतमन्यद्वाध्ययनमन्यगणसक्तस्य न दातव्यमिति एवंप्रकारा गणसंस्थिती: स्वच्छन्दं तीर्थकरानुपदेशेन कुर्वन्ति । तत्रैवं गणसंस्थितौ कृतायां योऽन्यगणसत्केऽपि पात्रे महाकल्पश्रुतादिकमध्ययनं ददाति तेन गणसंस्थितिस्त्यक्ता न धर्मस्तीर्थकरोपदेशेन वर्तमानत्वात् । एष हि भगवतां तीर्थकृतामुपदेशः सर्वस्यापि पात्रस्याविशेषेण दातव्यम् । यस्तु गणसंस्थितौ कृतायां न कस्यापि परगणसत्कस्य ददाति स द्वितीयः । अपात्रस्य ददाति तं प्राप्य तृतीयो भङ्गः । तेन गणस्थितेस्तीर्थकराज्ञाखण्डनतो धर्मस्य च त्यक्तत्वात् । यस्त्वन्यथा व्यवच्छेदं पश्यन् मेधावी प्रवचनोपग्रहकरो भविष्यतीत्यादिगुणसमन्वितं प्रतीच्छिकमुपलभ्य तस्य स्वयमेवं निजं दिग्बन्धं कृत्वा सातिशयमन्यद्वाध्ययनं ददाति । तमप्यास्तां प्रथमभङ्गवर्तिनमित्यपि शब्दार्थः । उभयं गणसंस्थितिं धर्मं चावलम्बमानं पूजयामः । एष चतुर्थपुरुषः।
दसविहवेयावच्चे अन्नयरे खिप्पमुज्जमं कुणइ। अच्चतमणिव्वाही धितिविरियकिसे पढमभंगो ॥१०॥४५८७॥ यो दशविधस्य वैयावृत्यस्य वक्ष्यमाणस्यान्यतरस्मिन् वैयावृत्ये प्रियधर्मतया क्षिप्रमुद्यम करोति, केवलमदढधर्मतया अत्यन्तमनिर्वाही तस्मिन् धृतिवीर्यकृशे प्रथमभङ्गः । - व्यवहार० मलय।
[पृ०४१२] "दुक्खेण उ गाहिजइ बिइओ गहियं तु नेइ जा तीरं । उभयतो कल्लाणो तइतो चरिमो अ परिकुट्ठो ॥१०॥४५८८॥ द्वितीयस्तु नोप्रियधर्मत्वात् दुःखेन महता कष्टेन प्रथमतो वैयावृत्यं ग्राह्यते । गृहीतं तु यावत् प्रतिज्ञायास्तीरं तावन्नयति, उभयतः कल्याणस्तृतीयः, चरमे न प्रियधर्मो नापि दृढधर्म इत्येवंरूपो गच्छे प्रतिक्रुष्टो निराकृतः ।" - व्यवहार० मलय०।
[पृ०४१४ पं०२०] आनन्दश्रावकादीनां कथा उपासकदशाङ्गादिषु वर्तते । [पृ०४२९ पं०१२] “सम्प्रति प्रसङ्गतोऽन्यतोऽप्युद्वृत्तानां लब्धि प्रतिपादयति- भूदगपंकप्पभवा, चउरो हरिआउ छच्च सिझंति । विगला लभिज्ज विरइं, न हु किंचि लभिज सुहुमतसा ॥२९७॥ व्या० भुवः पृथिव्या उदकात् अप्कायात् पंक त्ति पदैकदेशे पदसमुदायोपचारात् पङ्कप्रभायाः प्रभवःउत्पत्तिर्येषां मनुष्याणां ते भूदकपङ्कप्रभवा एकस्मिन् समये चत्वारः सिध्यन्ति । किमुक्तं भवति? पृथिवीकायेभ्योऽथवाऽप्कायिकेभ्यो यदि वा पङ्कप्रभाया उद्वृत्ताः सन्तोऽनन्तरभवे मनुष्या जाता यद्येकस्मिन् समये सिध्यन्ति, ततः प्रत्येकं चत्वारश्चत्वारः सिध्यन्ति । हरितेभ्यो वनस्पतिकायिकेभ्य उद्वृत्ताः षट् । तथा विकलात् विकलेन्द्रियादुवृत्ता अनन्तरभवे मनुष्या जाता विरतिं सर्वसावधविरतिं लभन्ते, न तु सिध्यन्ति । सूक्ष्मत्रसात् तेजःकायिकाद्वायुकायिकाद्वा उद्वृत्ता अनन्तरभवे तिर्यक्पञ्चेन्द्रिया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org