________________
४७
प्रथमं परिशिष्टम्- टिप्पनानि चत्वारि योजनशतानि त्रिंशदधिकानि ४३० एकं च क्रोशं १ भूमिमुपगता भूमौ प्रविष्टाः, सप्तदश योजनशतानि एकविंशत्यधिकानि १७२१ उच्छ्रिता उच्चाः । एते च सर्वेऽपि प्रत्येकमेकैकया वेदिकया एकैकेन च वनखण्डेन समन्ततः परिक्षिप्ताः ॥२४॥" - बृहत्क्षेत्र० मलय० ।।
पृ०३९३] “सम्प्रति सदृशविसदृशनामानि द्वीपसमुद्रयुगलान्याह- जंबू लवणो धायई कालो य पुक्खराइजुअलाइं । वारुणि खीर घयक्खू नंदीसरो अरुणदीवुदही ॥१२॥ व्या० जम्बूद्वीपो लवण इति तथा धातकीखण्ड: कालोद इति द्वे अपि द्वीपोदधियुगले विसदृशनामके, पुष्करादीनि पुष्करवरप्रभृतीनि युगलानि सदृशनामानि, तान्येव लेशतो दर्शयति- वारुणीत्यादि वारुणीवरो द्वीपो वारुणीवरः समुद्रः, क्षीरवरो द्वीपः क्षीरवरः समुद्रः, घृतवरो द्वीपो घृतवर: समुद्रः, इक्षुवरो द्वीप इक्षुवरः समुद्रः, नन्दीश्वरो द्वीपो नन्दीश्वरः समुद्रः, अरुणवरो द्वीपोऽरुणवरः समुद्रः ॥९२॥" - बृहत्संग्रहणी० मलय० ।
[पृ०४०३ पं०८] हरिकेशबलचरितम् उत्तराध्ययनसूत्रद्वादशाध्ययनादिषु वर्तते । [पृ०४०४ पं०१२] दृढप्रहारिकथा योगशास्त्रस्वोपज्ञवृत्त्यादिषु वर्तते । अत्रापि परिशिष्टे द्रष्टव्यं पृ०७१ ।
“वेसमणवयणसंचोइआ उ ते तिरिअजंभगा देवा । कोडिग्गसो हिरण्णं रयणाणि अ तत्थ उवणिंति ॥६८॥ गमनिका- वैश्रमणवचनसंचोदितास्तु ते तिर्यग्जृम्भका देवाः। तिर्यगिति तिर्यग्लोकजृम्भकाः कोट्यग्रश: कोटीपरिमाणत: हिरण्यम् अघटितरूपं रत्नानि च इन्द्रनीलादीनि तत्रोपनयन्तीति गाथार्थः ॥” - आव० हारि० ॥
[पृ०४१०] “पुट्ठापुट्ठो पढमो उ साहई न उ करेइ माणं तु । बितिउ माण करेई पुट्ठो वि न साहई किंचि ॥१६॥ तइओ पुट्ठो साहइ नो पुट्ट चउत्थमेव सेवइ उ । दो सफला दो अफला एवं गच्छे वि नायव्वा ॥१०॥४५६८-६९॥ प्रथमो राज्ञा पृष्टोऽपृष्टो वा यत्र शुभाशुभं वा साधयति, न मानं करोति, द्वितीयो मानं करोति, न च मानादेव पृष्टोऽपि किंचित् कथयति। तृतीयः पृष्टः साधयति नापृष्टः । चतुर्थः सेवते एव राजानं नेति । अत्र द्वौ प्रथमतृतीयौ सफलौ, द्वौ च द्वितीयचतुर्थावफलौ, एवममुना दृष्टान्तगतेन प्रकारेण गच्छेऽपि द्वौ प्रथमतृतीयौ सफलौ, द्वौ च द्वितीयचतुर्थावफलौ ज्ञातव्यौ । तेषां चतुर्णामपि स्वरूपमाह- आहार उवहि सयणाइएहिं गच्छस्सुवग्गरं कुणति । बिइओ माणं उभयं च तइओ नोभय चउत्थो ॥१०॥४५७०॥ प्रथम आहारोपधिशयनादिभिर्गच्छस्योपग्रहं करोति न च मानम्, द्वितीयो मानम्, तृतीय उभयं गच्छस्योपग्रहं मानं च, चतुर्थो नोभयं गच्छस्योपग्रहं नापि मानमिति । सो पुण गणस्स अट्ठो संगहो तत्थ संगहो दुविहो । दव्वे भावे तियगा उ दोन्नि आहारनाणादी ॥१०।४५७१॥ अनन्तरसूत्रे गणार्थकर उक्तः, स पुनर्गणस्यार्थः संग्रहस्तः संग्रहकरप्रतिपादनार्थमिदं सूत्रम् । तत्र सङ्ग्रहो द्विधा- द्रव्यतो भावतश्च । तत्र द्रव्ये भावे च द्वौ त्रिको द्रष्टव्यौ, तद्यथा- आहारादिकं द्रव्ये ज्ञानादित्रिकं भावे।" - व्यवहार० मलय० ॥
A-29
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org