________________
[सू० ४८४-४८५]
षष्ठमध्ययनं षट्स्थानकम् ।
६०७
[सू० ४८४] छव्विहा तणवणस्सतिकाइया पन्नत्ता, तंजहा-अग्गबीया, मूलबीया, पोरबीया, खंधबीया, बीयरुहा, संमुच्छिमा ।
टी०] तृणवनस्पतिकायिका बादरा इत्यर्थः, मूलबीजा उत्पलकन्दादय: इत्यादि व्याख्यातमेव, नवरं सम्मूर्छिमा: दग्धभूमौ बीजासत्त्वेऽपि ये तृणादय उत्पद्यन्ते ।
[सू० ४८५] छ ट्ठाणाइं सव्वजीवाणं णो सुलभाई भवंति, तंजहा-माणुस्सए 5 भवे १, आरिए खेते जम्मं २, सुकुले पच्चायाती ३, केवलिपन्नत्तस्स धम्मस्स सवणता ४, सुतस्स वा सद्दहणता ५, सद्दहितस्स वा पत्तितस्स वा रोइतस्स वा सम्मं काएणं फासणता ६ ।
[टी०] यथा अधिकृताध्ययनावतारं प्ररूपिता जीवा:, अथ तेषामेव ये पर्यायविशेषा दुर्लभास्तांस्तथैवाह– छट्ठाणाई इत्यादि, षट् स्थानानि षट् वस्तूनि सर्वजीवानां नो 10 नैव सुलभानि सुप्रापाणि भवन्ति, कृच्छ्रलभ्यानीत्यर्थः, न पुनरलभ्यानि, केषाञ्चिज्जीवानां तल्लाभोपलम्भादिति, तद्यथा- मानुष्यको मनुष्यसम्बन्धी भवो जन्म, स नो सुलभ इति प्रक्रम: आह च
ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥ [ ] इति । एवमार्ये क्षेत्रे अर्द्धषड्विंशतिजनपदरूपे जन्म उत्पत्ति:, इहाप्युक्तम्सत्यपि च मानुषत्वे दुर्लभतरमार्यभूमिसम्भवनम् । यस्मिन् धर्माचरणप्रवणत्वं प्राप्नुयात् प्राणी ॥ [ ] इति ।। तथा सुकुले इक्ष्वाक्वादिके प्रत्यायाति: जन्म नो सुलभमिति, अत्राभिहितम्आर्यक्षेत्रोत्पत्तौ सत्यामपि सत्कुलं न सुलभं स्यात् ।। सच्चरणगुणमणीनां पात्रं प्राणी भवति यत्र ॥ [ ] इति । तथा केवलिप्रज्ञप्तस्य धर्मस्य श्रवणता दुर्लभा, यतोऽवाचिसुलभा सुरलोयसिरी रयणायरमेहला मही सुलहा । निव्वुइसुहजणियरुई जिणवयणसुई जए दुलहा ॥ [ ] इति । १. पत्तियाइस्स भा० ॥
15
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org