________________
[सू० ४४२] पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः ।
५७१ द्रव्यतोऽसावेकं द्रव्यं तथाविधैकपरिणामादेकसङ्ख्याया एवेह भावात्, क्षेत्रतो लोकस्य प्रमाणं लोकप्रमाणम् असङ्ख्येयाः प्रदेशाः, तत् परिमाणमस्येति लोकप्रमाणमात्रः, कालतो न कदाचिन्नासीदित्यादि कालत्रयनिर्देशः, एतदेव सुखार्थं व्यतिरेकेणाहअभूच्च भवति च भविष्यति चेति, एवं त्रिकालभावित्वाद् ध्रुवः, मा भूदेकसर्गापेक्षयैव ध्रुवत्वमिति सर्वदैवं भावान्नियतः, मा भूदनेकसर्गापेक्षयैव नियतत्वमिति प्रलयाभावात् 5 शाश्वतः, एवं सदा भावेनाऽक्षयः, पर्यायापगमेऽप्यनन्तपर्यायतयाऽव्ययः, एवमुभयरूपतया अवस्थितः, अनेन प्रकारेणौघतो नित्य इति पूज्यव्याख्या, अथवा यत एव त्रैकालिकोऽसावत एव ध्रुवोऽवश्यंभावित्वादादित्योदयवत्, नियत एकरूपत्वात्, शाश्वत: प्रतिक्षणं सत्त्वादत एवाऽक्षयोऽवयविद्रव्यापेक्षया अक्षतो वा परिपूर्णत्वात्, अव्ययोऽवयवापेक्षया, अवस्थितो निश्चलत्वात्, तात्पर्यमाह- नित्य इति, अथवा 10 इन्द्र-शक्रादिशब्दवत् पर्यायशब्दा ध्रुवादयो नानादेशजविनेयप्रतिपत्त्यर्थमुपन्यस्ता इति। तथा गुणतः गमनं गतिस्तद् गुणो गतिपरिणामपरिणतानां जीवपुद्गलानां सहकारिकारणभावतः कार्यं मत्स्यानां जलस्येव यस्यासौ गमनगुणो गमने वा गुणः उपकारो जीवादीनां यस्मादसौ गमनगुण इति । एवं चेव त्ति यथा धर्मास्तिकायोऽधीत एवमधर्मास्तिकायोऽपीति, नवरं केवलमेतावान् विशेषो यदुत- ठाणगुणे त्ति स्थानं 15 स्थितिर्गुणः कार्यं यस्य स स्थानगुणः, स हि स्थितिपरिणतानां जीवादीनामपेक्षाकारणतया स्थानं कार्यं करोति, स्थाने वा स्थितौ गुण: उपकारो यस्मात् स तथा। लोगालोगेत्यादि लोकालोकयोस्तव्यक्त्योर्यत् प्रमाणम् अनन्ताः प्रदेशास्तदेव परिमाणमस्येति लोकालोकप्रमाणमात्रः, अवगाहना जीवादीनामाश्रयो गुणः कार्यं यस्य तस्यां वा गुण: उपकारो यस्मात् सोऽवगाहनागुणः । अणंताई दव्वाइं ति अनन्ता जीवास्तेषां 20 च प्रत्येकं द्रव्यत्वादिति । अरूवी जीवे त्ति जीवास्तिकायोऽमूर्तस्तथा चेतनावानिति। उपयोग: साकारानाकारभेदं चैतन्यं गुणो धर्मो यस्य स तथा । शेषं तदेव यदधास्तिकायादीनामिति, लोकप्रमाणो जीवास्तिकायः पुद्गलास्तिकायश्च, तयोस्तत्रैव भावादिति । गहणगुणे त्ति ग्रहणम् औदारिकशरीरादितया ग्राह्यता इन्द्रियग्राह्यता वा वर्णादिमत्त्वात् परस्परसम्बन्धलक्षणं वा तद् गुणो धर्मो यस्य स तथा । 25 - [सू० ४४२] पंच गतीतो पत्नत्ताओ, तंजहा- निरयगती, तिरियगती,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org