________________
५७०
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे आगासत्थिकाए अवन्ने एवं चेव, णवरं खेत्तओ लोगालोगपमाणमेत्ते, गुणतो अवगाहणागुणे, सेसं तं चेव ।
जीवत्थिकाए णं अवन्ने एवं चेव, णवरं दव्वओ णं जीवत्थिकाए अणंताई दव्वाइं, अरूवी जीवे सासते, गुणतो उवओगगुणे, सेसं तं चेव । 5 पोग्गलत्थिकाए पंचवन्ने पंचरसे दुग्गंधे अट्ठफासे रूवी अजीवे सासते
अवट्ठिते जाव दव्वओ णं पोग्गलत्थिकाए अणंताई दव्वाइं, खेत्तओ लोगपमाणमेत्ते, कालतो ण कयाइ णासि जाव णिच्चे, भावतो वनमंते गंधमंते रसमंते फासमंते, गुणतो गहणगुणे ।
[टी०] उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः 10 अनन्तरोद्देशके जीवधाः प्रायः प्ररूपिताः, इह त्वजीव-जीवधर्मा उच्यन्ते,
इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्- पंचेत्यादि, अस्य चायमभिसम्बन्धः-अनन्तरसूत्रे जीवास्तिकायविशेषा ऋद्धिमन्त उक्ताः इह त्वसङ्ख्येयानन्तप्रदेशलक्षणऋद्धिमन्तः समस्तास्तिकाया उच्यन्त इत्येवंसम्बन्धस्यास्य व्याख्या प्रथमाध्ययनवदनुसतव्या, नवरं
धर्मास्तिकायादयः किमर्थमित्थमेवोपन्यस्यन्त इति, उच्यते, धर्मास्तिकायादिपदस्य 15 माङ्गलिकत्वात् प्रथमं धर्मास्तिकायोपन्यासः पुनर्धर्मास्तिकायप्रतिपक्षत्वादधर्मास्तिकायस्य पुनस्तदाधारत्वादाकाशास्तिकायस्य पुनस्तदाधेयत्वाज्जीवास्तिकायस्य पुनस्तदुपग्राहकत्वात् पुद्गलास्तिकायस्येति, धर्मास्तिकायादीनां क्रमेण स्वरूपमाहधम्मत्थिकाएत्यादि वर्ण-गन्ध-रस-स्पर्शप्रतिषेधाद अरूवि त्ति रूपं मूर्तिवर्णादिमत्त्वम,
तदस्यास्तीति रूपी, न रूपी अरूपी अमूर्त इत्यर्थः, तथा अजीव: अचेतनः, शाश्वतः 20 प्रतिक्षणं सत्ताऽऽलिङ्गितत्वादवस्थितः अनेन रूपेण नित्यत्वादिति, लोकस्यांशभूतं द्रव्यं लोकद्रव्यम्, यत उक्तम्
पंचत्थिकायमइयं लोगमणाइनिहणं । [ध्यानश० ५३] इति ।
अथैतत्स्वरूपस्योक्तस्य प्रपञ्चनायानुक्तस्य चाभिधानायाह- स समासत: सक्षेपत: पञ्चविधः, विस्तरस्त्वन्यथापि स्यात्, कथमित्याह- द्रव्यतो द्रव्यतामधिकृत्य, क्षेत्रतः 25 क्षेत्रमाश्रित्य, एवं कालतो भावतश्च, गुणतः कार्यतः कार्यमाश्रित्येत्यर्थः । तत्र
१. सू० ११४ टीका ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org