SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ५६८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [टी०] आचार्यस्य गणे अतिशया उक्ताः, अधुना तस्यैवातिशयविपर्ययभूतानि गणान्निर्गमनकारणान्याह- पंचहीत्यादि सुगमम्, नवरम् आचार्योपाध्यायस्य आचार्योपाध्याययोर्वा गणाद् गच्छात् अपक्रमणं निर्गमो गणापक्रमणम् । आचार्योपाध्यायो गणे गच्छविषये आज्ञां वा योगेषु प्रवर्तनलक्षणां धारणां वाऽविधेयेषु निवर्त्तनलक्षणाम्, 5 नो नैव सम्यग् यथौचित्यं प्रयोक्ता तयोः प्रवर्तनशीलो भवति, इदमुक्तं भवति दुर्विनीतत्वाद् गणस्य ते प्रयोक्तुमशक्नुवन् गणादपक्रामति कालकाचार्यवदित्येकम् । __ तथा गणविषये यथारत्नाधिकतया यथाज्येष्ठं कृतिकर्म तथा वैनयिकं विनयं नो नैव सम्यक् प्रयोक्ता भवति, आचार्यसम्पदा साभिमानत्वात्, यतः आचार्येणापि प्रतिक्रमण-क्षामणादिषूचितानामुचितविनयः कर्त्तव्य एवेति द्वितीयम् । 10 तथा असौ यानि श्रुतपर्यवजातानि यान् श्रुतपर्यायप्रकारानुदेशका-ऽध्ययनादीन् धारयति हृद्यविस्मरणतस्तानि काले काले यथावसरं नो सम्यगनुप्रवाचयिता तेषां पाठयिता भवति, गणे त्ति इह सम्बध्यते, तेन गणे गणविषये गणमित्यर्थः, तस्याविनीतत्वात् तस्य वा सुखलम्पटत्वान्मन्दप्रज्ञत्वाद्वेति गणादपक्रामतीति तृतीयम्। तथा असौ गणे वर्तमानः सगणियाए त्ति स्वगणसम्बन्धिन्यां परगणियाए त्ति 15 परगणसत्कायां निन्थ्यां तथाविधाशुभकर्मवशवर्तितया सकलकल्याणाश्रय संयमसौधमध्याद् बहिर्लेश्या अन्तःकरणं यस्यासौ बहिर्लेश्यः आसक्तो भवतीत्यर्थः, एवं गणादपक्रामतीति, न चेदमधिकगुणत्वेन अस्यासम्भाव्यम्, यतः पठ्यते कम्माइं नूण घणचिक्कणाइं गरुयाई वजसाराइं। नाणड्ढयं पि पुरिसं पंथाओ उप्पहं नेति ॥ [ ] इति चतुर्थम् । 20 तथा मित्र-ज्ञातिगणो वा सुहृत्-स्वजनवर्गो वा से तस्याचार्यादेः कुतोऽपि कारणाद् गणादपक्रामेदतस्तेषां सुहृत्-स्वजनानां सङ्ग्रहाद्यर्थं गणादपक्रमणं प्रज्ञप्तम्, तत्र सङ्ग्रहस्तेषां स्वीकारः, उपग्रहो वस्त्रादिभिरुपष्टम्भ इति पञ्चमम् । [सू० ४४०] पंचविहा इड्डीमंता मणुस्सा पन्नत्ता, तंजहा- अरहंता, चक्कवट्टी, बलदेवा, वासुदेवा, भावियप्पाणो अणगारा । ॥ पंचट्ठाणस्स बिइओ ॥ [टी०] अनन्तरमाचार्यस्य गणापक्रमणमुक्तम्, स च ऋद्धिमन्मनुष्यविशेष इत्यधिकाराद् १. कालिका जे१ ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy