SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ५४८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे न शेषैः, आगमेऽपि षड्विधे केवलेनावन्ध्यबोधत्वात् तस्य, एतदभावे च मन:पर्यायेण, एवं प्रधानतराभावे इतरेणेति, अथ नो नैव से तस्य स वा तत्र व्यवहर्त्तव्यादावागम: स्यात् यथा यत्प्रकारं तत्र श्रुतं स्यात् तादृशेन श्रुतेन व्यवहारं प्रस्थापयेदिति । इच्चेएहिं इत्यादि निगमनं सामान्येनेति, यथा यथाऽसौ तत्रागमादि स्यात्तथा तथा 5 व्यवहारं प्रस्थापयेदिति तु विशेषनिगमनम् इति । एतैर्व्यवहर्तुः प्रश्नद्वारेण फलमाहसे किमित्यादि, अथ किं हे भदन्त ! भट्टारक ! आहुः प्रतिपादयन्ति, के ? आगमबलिका उक्तज्ञानविशेषबलवन्त: श्रमणा निर्ग्रन्था: केवलिप्रभृतयः, इच्चेयं ति इत्येतद्वक्ष्यमाणम्, अथवा किं तदित्याह– इत्येतम्, इति उक्तरूपम् एतं प्रत्यक्षम्, कम्, पञ्चविधं व्यवहारं प्रायश्चित्तदानादिरूपं सम्मं ववहरमाणे त्ति सम्बध्यते व्यवहरन् 10 प्रवर्त्तयन्नित्यर्थः कथम् ? सम्मं ति सम्यक्, तदेव कथमित्याह- यदा यदा यस्मिन् यस्मिन्नवसरे यत्र यत्र प्रयोजने क्षेत्रे वा, यो य: उचितस्तमिति शेष: तदा तदा काले तस्मिंस्तस्मिन् प्रयोजनादौ, कथंभूतमित्याह- अनिश्रितैः सर्वाशंसारहितैरुपाश्रितः अङ्गीकृतोऽनिश्रितोपाश्रितस्तम्, अथवा निश्रितश्च शिष्यत्वादि प्रतिपन्न: उपाश्रितश्च · स एव वैयावृत्यकरत्वादिना प्रत्यासन्नतरस्तौ, अथवा निश्रितं च राग: उपाश्रितं च 15 द्वेषस्ते, अथवा निश्रितं च आहारादिलिप्सा उपाश्रितं च शिष्य-प्रतीच्छक-कुलाद्यपेक्षा, ते न स्तो यत्र तत्तथेति क्रियाविशेषणम्, सर्वथा पक्षपातवर्जितत्वेन यथावदित्यर्थः, इह पूज्यव्याख्या रागो उ होइ निस्सा उवस्सिओ दोससंजुत्तो ॥ अहवण आहाराई दाही मज्झं तु एस निस्सा उ। 20 सीसो पडिच्छओ वा होइ उवस्सा कुलाईया ॥ [ ] इति, आज्ञाया जिनोपदेशस्याराधको भवतीति हन्त आहुरेवेति गुरुवचनं गम्यमिति । [सू० ४२२] संजतमणुस्साणं सुत्ताणं पंच जागरा पन्नत्ता, तंजहा- सद्दा जाव फासा १॥ १. "रकाहुः पा० । 'रका आहुः जे२ ॥ २. किं तदित्याह जेसं१,२ खं० मध्ये एव वर्तते, पा० जेमू१ मध्ये नास्ति॥ ३. इत्येवमुक्तरूपं जेमू१ ॥ इत्येतमुक्तरूपं जेसं१ ॥ ४. हार जे१, २ खं० ॥ ५. संसा जे१ खं० ॥ ६. इह पूर्वव्याख्या खं०। इह च पूज्यव्याख्या जेमू१, इह च पूर्वव्याख्या जेसं१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy