SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ [सू० ४०७-४०८] पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । ५२३ उप्पा इत्यादिवत्, प्रतिघात: प्रतिहननमित्यर्थः, तत्र गते: देवगत्यादेः प्रकरणाच्छुभाया: प्रतिघातः, तत्प्राप्तियोग्यत्वे सति विकर्म करणादप्राप्तिर्गतिप्रतिघातः, प्रव्रज्यादिपरिपालनत: प्राप्तव्यशुभदेवगतेर्नरकप्राप्तौ कण्डरीकस्येवेति, तथा स्थिते: शुभदेवगतिप्रायोग्यकर्मणां तथैव प्रतिघात: स्थितिप्रतिघात:, भवति चाध्यवसायविशेषात् स्थिते: प्रतिघातः, यदाह- दीहकालठियाओ ह्रस्सकालठियाओ पकरेइ [भगवती० 5 १।१।११] इति । तथा बन्धनं नामकर्मण उत्तरप्रकृतिरूपमौदारिकादिभेदत: पञ्चविधम्, तस्य प्रक्रमात् प्रशस्तस्य प्राग्वत् प्रतिघातो बन्धनप्रतिघात:, बन्धनग्रहणस्योपलक्षणत्वात् तत्सहचरप्रशस्तशरीर-तदङ्गोपाङ्ग-संहनन-संस्थानानामपि प्रतिघातो व्याख्येय:, तथा प्रशस्तगति-स्थिति-बन्धनादिप्रतिघाताद् भोगानां प्रशस्तगत्याद्यविनाभूतानां प्रतिघातो भोगप्रतिघातः, भवति हि कारणाभावे कार्याभाव इति, तथा प्रशस्तगत्यादेरभावादेव 10 बल-वीर्य-पुरुषकार-पराक्रमप्रतिघातो भवतीति प्रतीतम्, तत्र बलं शारीरम्, वीर्य जीवप्रभवम्, पुरुषकारः अभिमानविशेषः, पराक्रमः स एव निष्पादितस्वविषयः, अथवा पुरुषकारः पुरुषकर्त्तव्यम्, पराक्रमो बल-वीर्ययोापारणमिति । [सू० ४०७] पंचविधे आजीवे पन्नत्ते, तंजहा-जातिआजीवे, कुलाजीवे, कम्माजीवे, सिप्पाजीवे, लिंगाजीवे । 15 [टी०] देवगत्यादिप्रतिघातश्च चारित्रातिचारकारिणो भवतीत्युत्तरगुणानाश्रित्य तद्विशेषमाह- पंचविहेत्यादि, जातिं ब्राह्मणादिकामाजीवति उपजीवति तज्जातीयमात्मानं सूचादिनोपदर्श्य ततो भक्तादिकं गृह्णातीति जात्याजीवकः, एवं सर्वत्र, नवरं कुलम् उग्रादिकं गुरुकुलं वा, कर्म कृष्याद्यनाचार्यकं वा, शिल्पं तूर्णनादि साचार्यकं वा, लिङ्गं साधुलिङ्गं तदाजीवति, ज्ञानादिशून्यस्तेन जीविकां 20 कल्पयतीत्यर्थः, लिङ्गस्थानेऽन्यत्र गणोऽधीयते, यत उक्तम् जाई-कुल-गण-कम्मे सिप्पे आजीवणा उ पंचविहा । सूयाए असूयाए अप्पाण कहेइ एक्केको ॥ [निशीथ० ४४११] त्ति, तत्र गणो मल्लादिः, सूचया व्याजेन, असूचया साक्षात् । [सू० ४०८] पंच रातककुधा पन्नत्ता, तंजहा-खग्गं, छत्तं, उप्फेसिं, 25 १. दृश्यतां सू०१४ ॥ २. तत्र प्राप्ति जे१ ॥ ३. दृश्यतामत्र प्रथमपरिशिष्टे पृ० ११ ॥ ४. 'पादिश्य खं०॥ ५. एक्कक्के जे१ विना ॥ ६. उप्फेसं भां०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy