SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ [सू० ४००] पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । ५१९ तेरसवासस्स तहा उट्ठाणसुयाइया चउरो ॥ चोद्दसवासस्स तहा आसीविसभावणं जिणा बिंति । पन्नरसवासगस्स य दिट्ठीविसभावणं तह य ॥ सोलसवासाईसु य एकुत्तरवढिएसु जहसंखं । चारणभावण महसुमिणभावणा तेयगनिसग्गा ॥ एगूणवीसगस्स उ दिट्ठीवाओ दुवालसममंगं । संपुण्णवीसवरिसो अणुवाई सव्वसुत्तस्स ॥ [पञ्चव० ५८१-५८८] त्ति । तथा स एव ग्लान-शैक्षवैयावृत्यं प्रति न सम्यक् स्वयमभ्युत्थाता अभ्युपगन्ता भवतीति चतुर्थम् । तथा स एव गणम् अनापृच्छय चरति क्षेत्रान्तरसङ्क्रमादि करोतीत्येवंशीलोऽनापृच्छ्यचारी, किमुक्तं भवति ? नो आपृच्छ्यचारीति पञ्चमं 10 विग्रहस्थानम् । एतदेव व्यतिरेकेणाह-अविग्रहसूत्रं गतार्थम् । ___[सू० ४००] पंच निसिजाओ पन्नत्ताओ, तंजहा- उक्कुडुती, गोदोहिता, समपायपुता, पलितंका, अद्धपलितंका । पंच अजवट्ठाणा पन्नत्ता, तंजहा- साधुअजवं, साधुमद्दवं, साधुलाघवं, साधुखंती, साधुमोत्ती । 15 [टी०] निषद्यासूत्रे निषदनानि निषद्या: उपवेशनप्रकाराः, तत्रासनालग्नपुत: पादाभ्यामवस्थित उत्कुटुकः, तस्य या सा उत्कुटुका, तथा गोर्दोहनं गोदोहिका, तद्वद्याऽसौ गोदोहिका, तथा समौ समतया भूलग्नौ पादौ च पुतौ च यस्यां सा समपादपुता, तथा पर्यङ्का जिनप्रतिमानामिव या पद्मासनमिति रूढा, तथा अर्द्धपर्यङ्का ऊरावेकपादनिवेशनलक्षणेति। 20 ऋजोः राग-द्वेषवक्रत्ववर्जितस्य सामायिकवत: कर्म भावो वा आर्जवं संवर इत्यर्थः, तस्य स्थानानि भेदा आर्जवस्थानानि, साधु सम्यग्दर्शनपूर्वकत्वेन शोभनमार्जवं मायानिग्रहः, तत: कर्मधारयः, साधोर्वा यतेरार्जवं साध्वार्जवम्, एवं शेषाण्यपि । १. नोपृच्छाचारीति जे१ ॥ २. एतदेव व्यतिरेकेणाह खं० जे२ पासू० मध्ये नास्ति ॥ ३. पंच निसेजाओ पंच सेजाओ पं० २० भा० ॥ ४. 'पुयपुता भा० ॥ ५. साधू अजवे साधू मद्दवे साधुलाघवे भां०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy