SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ ५१८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे ४, आयरियउवज्झाते गणंसि आपुच्छियचारी यावि भवति, णो अणापुच्छियचारी ५ ।। [टी०] तथा आचार्योपाध्यायस्येति समाहारद्वन्द्वः कर्मधारयो वा, ततश्चाचार्यस्योपाध्यायस्य च आचार्योपाध्यायस्य वा गणंसि त्ति गणे विग्रहस्थानानि 5 कलहाश्रया:, आचार्योपाध्यायो द्वयं वा गणे गणविषये आज्ञां 'साधो ! भवतेदं विधेयम्' इत्येवंरूपामादिष्टिम्, धारणां 'न विधेयमिदम्' इत्येवंरूपां नो नैव सम्यग् औचित्येन प्रयोक्ता भवतीति साधवः परस्परं कलहायन्ते असम्यग् नियोगात् दुनियन्त्रितत्वाच्च, अथवा अनौचित्यनियोक्तारमाचार्यादिकमेव कलहायन्ते इत्येवं सर्वत्रेति, अथवा गूढार्थपदैरगीतार्थस्य पुरतो देशान्तरस्थगीतार्थनिवेदनाय गीतार्थो 10 यदतिचारनिवेदनं करोति साऽऽज्ञा, असकृदालोचनादानेन यत् प्रायश्चित्तविशेषावधारणं सा धारणा, तयोर्न सम्यक् प्रयोक्तेति स कलहभागिति प्रथमम् । तथा स एव आहाराइणियाए त्ति रत्नानि द्विधा- द्रव्यतो भावतश्च, तत्र द्रव्यत: कर्केतनादीनि भावतो ज्ञानादीनि, तत्र रत्नै: ज्ञानादिभिर्व्यवहरतीति रात्निकः बृहत्पर्यायः, यो यो रात्निको यथारात्निकम्, तद्भावस्तत्ता, तया यथारात्निकतया यथाज्येष्ठं कृतिकर्म 15 वन्दनकं विनय एव वैनयिकं तच्च न सम्यक् प्रयोक्ता, अन्तर्भूतकारितार्थत्वाद्वा प्रयोजयिता भवतीति द्वितीयम् । तथा स एव यानि श्रुतस्य पर्यवजातानि सूत्रार्थप्रकारान् धारयति धारणाविषयीकरोति तानि काले काले यथावसरं न सम्यगनुप्रवाचयिता भवति न पाठयतीत्यर्थः इति तृतीयम्, काले अनुप्रवाचयितेत्युक्तं तत्र गाथा: कालक्कमेण पत्तं संवच्छरमाइणा उ जं जम्मि । 20 तं तम्मि चेव धीरो वाएजा सो य कालोऽयं ॥ तिवरिसपरियागस्स उ आयारपकप्पनाममज्झयणं । चउवरिसस्स य सम्मं सूयगडं नाम अंगं ति ॥ दस-कप्प-व्ववहारा संवच्छरपणगदिक्खियस्सेव । ठाणं समवाओ वि य अंगे ते अट्ठवासस्स ॥ दसवासस्स विवाहो एक्कारसवासयस्स य इमे उ । खुड्डियविमाणमाई अज्झयणा पंच नायव्वा ॥ बारसवासस्स तहा अरुणुववायाइ पंच अज्झयणा । 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy