SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ५०६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे मनोहराणीत्यर्थः, महइमहालयाई ति विस्तीर्णत्वेन महानिधानानीति महामूल्यरत्नादिमत्त्वेन, प्रहीणा: स्वामिनो येषां तानि तथा, तथा प्रहीणाः सेक्तारः सेचकास्तेष्वेवोपर्युपरि धनप्रक्षेपकाः पुत्रादयो येषां तानि तथा, अथवा प्रहीणाः सेतवः तदभिज्ञानभूताः पालयस्तन्मार्गा वाऽतिचिरन्तनतया प्रतिजागरकाभावेन च येषां तानि 5 प्रहीणसेतुकानि, किंबहुना ?, निधायकानां यानि गोत्रागाराणि कुलगृहाणि तान्यपि प्रहीणानि येषाम् । अथवा तेषामेव गोत्राणि नामान्याकाराश्च आकृतयस्ते प्रहीणा येषां तानि प्रहीणगोत्रागाराणि प्रहीणगोत्राकाराणि वा, एवमुच्छन्नस्वामिकादीन्यपि, नवरमिह प्रहीणाः किञ्चत्सत्तावन्तः उच्छन्ना निर्नष्ट सत्ताका:, यानीमानि अनन्तरोक्तविशेषणानि, तथा ग्रामादिषु यानि, तत्र करादिगम्यो ग्रामः, आगत्य कुर्वन्ति 10 यत्र स आकरो लोहाद्युत्पत्तिभूमिरिति, नास्मिन् करोऽस्तीति नकरम्, धूलीप्राकारोपेतं खेटम्, कुनगरं कर्बटम्, सर्वतोऽर्द्धयोजनात् परेण स्थितग्राम मडम्बम्, यस्य जलस्थलपथावुभावपि तद् द्रोणमुखम्, यत्र जलपथ-स्थलपथयोरन्यतरेण पर्याहारप्रवेशस्तत् पत्तनम्, तीर्थस्थानमाश्रमः, यत्र पर्वतनितम्बादिदुर्गे परचक्रभयेन रक्षार्थं धान्यादीनि वहन्ति स संवाहः, यत्र प्रभूतानां भाण्डानां प्रवेशः स 15 संनिवेशः, तथा शृङ्गाटकं त्रिकोणं रथ्यान्तरं स्थापना 7, त्रिकं यत्र रथ्यानां त्रयं मिलति । , चतुष्कं यत्र रथ्याचतुष्टयम् +, चत्वरं रथ्याष्टकमध्यम् #, चतुर्मुखं देवकुलादि, महापथो राजमार्गः, पथो रथ्यामात्रम्, एवंभूतेषु वा स्थानेषु, नगरनिर्द्धमनेषु तत्क्षालेषु, तथा अगारशब्दसम्बन्धात् स्मशानागारं पितृवनगृहम्, शून्यागारं प्रतीतम्, तथा गृहशब्दसम्बन्धात् गिरिगृहं पर्वतोपरि गृहम्, कन्दरगृहं गिरिगुहा गिरिकन्दरं वा, 20 शान्तिगृहं यत्र राज्ञां शान्तिकर्म होमादि क्रियते, शैलगृहं पर्वतमुत्कीर्य यत् कृतम्, उपस्थानगृहम् आस्थानमण्डपोऽथवा शैलोपस्थानगृहं पाषाणमण्डपः, भवनगृहं यत्र कुटुम्बिनो वास्तव्या भवन्तीति, अथवा शान्त्यादिविशेषितानि भवनानि गृहाणि च, तत्र भवनं चतुःशालादि, गृहं तु अपवरकादिमात्रम्, तेषु सन्निक्षिप्तानि न्यस्तानि दृष्ट्वा क्षुभ्येद् अदृष्टपूर्वतया विस्मयाल्लोभावति, इच्चेएहीत्यादि निगमनमिति । केवलज्ञानदर्शनं १. 'याई विस्ती जे१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy