SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ४७३ [सू० ३५५] चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः । चउव्विहा पव्वजा पन्नत्ता, तंजहा-नडखइया, भडखइया, सीहखइया, सियालखइया ५ ।। चउव्विहा किसी पन्नत्ता, तंजहा-वाविता, परिवाविया, प्रिंदिता, परिणिंदिता ६ । एवामेव चउव्विहा पव्वजा पनत्ता, तंजहा-वाविता, परिवाविता, प्रिंदिता, परिणिंदिता ७ ।। 5 चउव्विहा पव्वजा पन्नत्ता, तंजहा-धन्नपुंजितसमाणा, धनविरल्लितसमाणा, धन्नविक्खित्तसमाणा, धन्नसंकड्डितसमाणा ८ । [टी०] अयं चापध्वंस: प्रव्रज्यान्वितस्येति प्रव्रज्यानिरूपणाय चउब्विहा पव्वज्जेत्यादि सूत्राष्टकं कण्ठ्यम्, किन्तु इहलोकप्रतिबद्धा निर्वाहादिमात्रार्थिनाम्, परलोकप्रतिबद्धा जन्मान्तरकामाद्यर्थिनाम्, द्विधालोकप्रतिबद्धोभयार्थिनाम्, 10 अप्रतिबद्धा विशिष्टसामायिकवतामिति । पुरत: अग्रत: प्रव्रज्यापर्यायभाविषु शिष्या-ऽऽहारादिषु या प्रतिबद्धा सा तथोच्यते, एवं मार्गत: पृष्ठतः स्वजनादिषु, द्विधाऽपि काचित्, अप्रतिबद्धा पूर्ववत् । ओवाय त्ति अवपात: सद्गुरूणां सेवा, ततो या प्रव्रज्या साऽवपातप्रव्रज्या, आख्यातस्य ‘प्रव्रज' इत्याद्युक्तस्य या स्यात् साऽऽख्यातप्रव्रज्या आर्यरक्षितभ्रातु: 15 फल्गुरक्षितस्येवेति, संगार त्ति सङ्केतः, तस्माद्या सा तथा मेतार्यादीनामिव, यदिवा 'यदि त्वं प्रव्रजसि तदाऽहमपि' इत्येवं सङ्केततो या सा तथेति, विहगगइ त्ति विहगगत्या पक्षिन्यायेन परिवारादिवियोगेनैकाकिनो देशान्तरगमनेन च या सा विहगगतिप्रव्रज्या, क्वचिद् विहगपव्वजे ति पाठस्तत्र विहगस्येवेति दृश्यमिति, विहतस्य वा दारिद्र्यादिभिररिभिर्वेति । 20 तुयावइत्त त्ति तोदं कृत्वा तोदयित्वा व्यथामुत्पाद्य या प्रव्रज्या दीयते मुनिचन्द्रपुत्रस्य सागरचन्द्रेणेव सा तथोच्यते, ओयावइत्त त्ति क्वचित् पाठस्तत्र ओजो बलं शारीरं विद्यादिसत्कं वा तत् कृत्वा प्रदर्श्य या दीयते सा ओजयित्वेत्यभिधीयते, पुयावइत्त त्ति प्लुङ गतौ पा० धा० ९५८] इति वचनात् प्लावयित्वा अन्यत्र नीत्वाऽऽर्यरक्षितवत, १. इमाः सर्वाऽपि कथाः प्रथमभागे प्रथमपरिशिष्टे द्रष्टव्याः ।। 1-A-15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy