________________
आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
चतुष्पदाः स्थलचरपञ्चेन्द्रियतिर्यञ्चः, एकः खुरः पादे पादे येषां ते एकखुराः अश्वादयः, एवं द्वौ खुरौ येषां ते तथा, ते च गवादयः, गण्डी सुवर्णकारादीनामधिकरण गण्डिका, तद्वत् पदानि येषां ते तथा, ते च हस्त्यादयः, सणप्पय त्ति सनखपदाः नाखराः सिंहादयः, इहोत्तरसूत्रद्वये च जीवानां पुरुषशब्दवाच्यत्वात् पुरुषाधिकारतेति 5 ३४ । चर्ममयपक्षाः पक्षिणश्चर्म्मपक्षिणो वल्गुलीप्रभृतयः, एवं लोमपक्षिणो हंसादय:, समुद्रकवत् पक्षौ येषां ते समुद्रकपक्षिणः, समासान्त इन्, ते च बहिद्वीप - समुद्रेषु, एवं विततपक्षिणोऽपीति ३५ ।
४६८
क्षुद्रा अधमा अनन्तरभवे सिद्ध्यभावात् प्राणा उच्छ्वासादिमन्तः क्षुद्रप्राणा:, संमूर्च्छन निर्वृत्ता: सम्मूर्च्छिमाः, तिरश्चां सत्का योनिर्येषां ते तथा, ततः पदत्रयस्य 10 कर्मधारये सति सम्मूर्च्छिमपञ्चेन्द्रियतिर्यग्योनिका इति भवति ३६ ।
निपतिता नीडादवतरीता अवतरीतुं शक्तो नामैक: पक्षी धृष्टत्वादज्ञत्वाद्वा न तु परिव्रजिता न परिव्रजितुं शक्तो बालत्वादित्येकः, एवमन्यः परिव्रजितुं शक्तः पुष्टत्वान्न तु निपतितुं भीरुत्वात्, अन्यस्तूभयथा, चतुर्थस्तूभयप्रतिषेधवानतिबालत्वादिति ३७। निपतिता भिक्षाचर्यायामवतरीता भोजनाद्यर्थित्वान्न तु परिव्रजिता परिभ्रमको 15 ग्लानत्वादलसत्वाल्लज्जालुत्वाद्वेत्येकः, अन्यः परिव्रजिता परिभ्रमणशील आश्रयान्निर्गतः सन् न तु निपतिता भिक्षार्थमवतरीतुमशक्तः सूत्रार्थासक्तत्वादिना, शेषौ स्पष्टौ ३८ ।
निष्कृष्टः निष्कर्षितः तपसा कृशदेह इत्यर्थः, पुनर्निष्कृष्टो भावतः कृशीकृतकषायत्वादेवमन्ये त्रय इति ३९ । एतद्भावनार्थमेवानन्तरं सूत्रम् - निष्कृष्टः कृशशरीरतया, तथा निष्कृष्टः आत्मा कषायादिनिर्म्मथनेन यस्य स तथेत्येवमन्ये त्रय 20 इति । अथवा निष्कृष्टस्तपसा कृशीकृतः पूर्वं पश्चादपि तथैवेत्येवमाद्यसूत्रं व्याख्येयम्, द्वितीयं तु यथोक्तमेवेति ४० । बुधो बुधत्वकार्यभूतसत्क्रियायोगात्, उक्तं च
पठकः पाठकश्चैव ये चान्ये तत्त्वचिन्तकाः ।
सर्वे ते व्यसनिनो राजन् ! यः क्रियावान् स पण्डितः ॥ [ ] इति ।
पुनर्बुधः सविवेकमनस्त्वादित्येकः । अन्यो बुधस्तथैव, अबुधस्त्वविविक्तमनस्त्वात् । 25 अपरस्त्वबुधोऽसत्क्रियत्वात्, बुधो विवेकवच्चित्तत्वात् । चतुर्थ उभयनिषेधादिति ४१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org