________________
[सू० ३४६-३५२] चतुर्थमध्ययनं चतु: स्थानकम् । चतुर्थ उद्देशकः ।
४६७
मधुसिक्थं मदनम्, तस्य गोलो वृत्तपिण्डो मधुसिक्थगोल:, एवमन्येऽपि, नवरं जतु लाक्षा, दारु- मृत्तिके प्रसिद्धे इति २४, यथैते गोला मृदु- कठिन - कठिनतरकठिनतमाः क्रमेण भवन्त्येवं ये पुरुषाः परीषहादिषु मृदु-दृढ-दृढतर- दृढतमसत्त्वा भवन्ति मधुसिक्थगोलसमाना इत्यादिभिर्व्यपदेशैर्व्यपदिश्यन्त इति २५ ।
अयोगोलादयः प्रतीताः २६, एतैश्चायोगोलकादिभिः क्रमेण गुरु- गुरुतर - गुरुतमा- 5 ऽत्यन्तगुरुभिः आरम्भादिविचित्र प्रवृत्त्युपार्जितकर्म्मभारा ये पुरुषा भवन्ति तेऽयोगोलसमाना इत्यादिव्यपदेशवन्तो भवन्ति पितृ - मातृ-पुत्र - कलत्रगतस्नेहभारतो वेति २७ । हिरण्यादिगोलेषु क्रमेणाल्पगुण गुणाधिक-गुणाधिकतर गुणाधिकतमेषु पुरुषाः समृद्धितो ज्ञानादिगुणतो वा समानतया योज्याः २९ ।
पत्राणि पर्णानि, तद्वत् प्रतनुतया यानि अस्यादीनि तानि पत्राणीति, असि: खड्ग:, 10 स एव पत्रमसिपत्रम्, करपत्रं क्रकचं येन दारु छिद्यते, क्षुर: छुरः, स एव पत्रं क्षुरपत्रम्, कदम्बचीरिकेति शस्त्रविशेष इति ३०, तत्र द्राक् छेदकत्वादसेर्य: पुरुषो द्रागेव स्नेहपाशं छिनत्ति सोऽसिपत्रसमानः, अवधारितदेववचनसनत्कुमारचक्रवर्त्तिवत्, यस्तु पुनः पुनरुच्यमानो भावनाभ्यासात् स्नेहतरं छिनत्ति स करपत्रसमानः, तथाविधश्रावकवत्, करपत्रस्य हि गमनागमनाभ्यां कालक्षेपेण छेदकत्वादिति, यस्तु 15 श्रुतधर्म्ममार्गोऽपि सर्वथा स्नेहच्छेदासमर्थो देशविरतिमात्रमेव प्रतिपद्यते स क्षुरपत्रसमानः, क्षुरो हि केशादिकमल्पमेव छिनत्तीति, यस्तु स्नेहच्छेदं मनोरथमात्रेणैव करोति स चतुर्थ: अविरतसम्यग्दृष्टिरिति, अथवा यो गुर्वादिषु शीघ्र - मन्द मन्दतर- मन्दतमतया स्नेहं छिनत्ति स एवमपदिश्यते ३१ ।
कम्बादिभिरातान-वितानभावेन निष्पाद्यते यः स कटः, कट इव कट इत्युपचारात् 20 तन्त्वादिमयोऽपि कट एवेति तत्र सुंठकडे त्ति तृणविशेषनिष्पन्नः, विदलकडे वंशशकलकृतः, चम्मकडे त्ति वर्धव्यूतमञ्चकादिः, कंबलकडे त्ति कम्बलमेवेति ३२ । एतेषु चाल्पप-बहु-बहुतर-बहुतमावयवप्रतिबन्धेषु पुरुषा योजनीयाः, तथाहियस्य गुर्वादिष्वल्पः प्रतिबन्धः स्वल्पव्यलीकादिनापि विगमात् स सुण्ठकटसमान इत्येवं सर्वत्र भावनीयमिति ३३ ।
१. शिक्थ जे१ ॥
Jain Education International
For Private & Personal Use Only
25
www.jainelibrary.org