________________
४६४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे ___ चत्तारि पुरिसजाता पन्नत्ता, तंजहा-बुहे नाममेगे बुहे, बुहे नाममेगे अबुहे ह्व [= ४], ४१ ।
चत्तारि पुरिसजाता पन्नत्ता, तंजहा-बुधे नाममेगे बुधहियए ह्व [= ४], ४२ । 5 चत्तारि पुरिसजाया पन्नत्ता, तंजहा-आताणुकंपते णाममेगे नो पराणुकंपते ह्व [= ४], ४३ ।
[टी०] पुरुषाधिकारात् पुरुषविशेषप्रतिपादनाय प्रायः सदृष्टान्तसूत्राणि पुरुषसूत्राणि त्रिचत्वारिंशतं चत्तारि मेहेत्यादीन्याह, सुगमानि च, नवरं मेघाः पयोदाः । गर्जिता
गर्जिकृत् नो वर्षिता न प्रवर्षणकारीति १ । एवं कश्चित् पुरुषो गर्जितेव गर्जिता दान10 ज्ञान-व्याख्याना-ऽनुष्ठान-शत्रुनिग्रहादिविषये उच्चैः प्रतिज्ञावान् नो नैव वर्षितेव वर्षिता
वर्षकोऽभ्युपगतसम्पादक इत्यर्थः, अन्यस्तु कार्यकर्ता न चोच्चैः प्रतिज्ञावानिति, एवमितरावपि नेयाविति २।
विज्जुयाइत्त त्ति विद्युत्कर्ता ३ । एवं पुरुषोऽपि कश्चिदुच्चैः प्रतिज्ञाता न च विद्युत्कारतुल्यस्य दानादिप्रतिज्ञातार्थारम्भाडम्बरस्य कर्ता, अन्यस्तु आरम्भाडम्बरस्य 15 कर्ता न प्रतिज्ञातेति, एवमन्यावपीति ४ । वर्षिता कश्चिद् दानादिभिर्न तु तदारम्भाडम्बरकर्ता, अन्यस्तु विपरीतोऽन्य उभयथाऽन्यो न किञ्चिदिति ६ ।
कालवर्षी अवसरवर्षीति, एवमन्येऽपि ७ । पुरुषस्तु कालवर्षीव कालवर्षी अवसरे दान-व्याख्यानादिपरोपकारार्थप्रवृत्तिक एकः, अन्यस्त्वन्यथेति, एवं शेषौ ८ । क्षेत्रं
धान्याद्युत्पत्तिस्थानम् ९ । पुरुषस्तु क्षेत्रवर्षीव क्षेत्रवर्षी पात्रे दान-श्रुतादीनां निक्षेपकः, 20 अन्यो विपरीतः, अन्यस्तथाविधविवेकविकलतया महौदार्यात् प्रवचनप्रभावनादिकारणतो
वा उभयस्वरूपः, अन्यस्तु दानादावप्रवृत्तिक इति १० । जनयिता मेघो यो वृष्ट्या धान्यमुद्गमयति, निर्मापयिता तु यो वृष्ट्यैव सफलतां नयतीति ११ । एवं मातापितरावपीति प्रसिद्धम्, एवमाचार्योऽपि शिष्यं प्रत्युपनेतव्य इति १२ ।
विवक्षितभरतादिक्षेत्रस्य प्रावृडादिकालस्य वा देशे आत्मनो वा देशेन वर्षतीति १. 'मानि नवरं जे१ खं० ॥ २. अन्यश्चारंभा" जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org