________________
आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
तथैव
-
परपर्यायैरादिष्टतया असत्त्वादन्यस्य स्वपरपर्यायैर्युगपदादिष्टस्य वक्तुमशक्यत्वेनावक्तव्यत्वात् तस्य घटादिद्रव्यस्य सदसदवक्तव्यत्वमिति ७, इह च प्रथम द्वितीय-चतुर्था अखण्डवस्त्वाश्रिताः शेषाश्चत्वारो वस्तुदेशाश्रिता दर्शिताः, तथाऽन्यैस्तृतीयोऽपि विकल्पोऽखण्डवस्त्वाश्रित एवोक्तः, तथाहि - अखण्डस्य वस्तुनः 5 स्वपर्यायैः परपर्यायैश्च विवक्षितस्य सदसत्त्वमिति, अत एवाभिहितमाचारटीकायाम्इह चोत्पत्तिमङ्गीकृत्योत्तरं विकल्पत्रयं न सम्भवति, पदार्थावयवापेक्षत्वात् तस्योत्पत्तेश्चावयवाभावात् [ आचाराङ्गटी० ] इति । एवमज्ञानिकानां सप्तषष्टिर्भवतीति ।
वैनयिकानां च द्वात्रिंशत्, सा चैवमवसेया- सुर-नृपति-यति- ज्ञाति- स्थविराऽधम-मातृ-पितॄणां प्रत्येकं कायेन वाचा मनसा दानेन च देशकालोपपन्नेन विनयः कार्य 10 इत्येते चत्वारो भेदाः सुरादिष्वष्टासु स्थानेषु भवन्ति, ते चैकत्र मीलिता द्वात्रिंशदिति, सर्वसङ्ख्या पुनरेतेषां त्रीणि शतानि त्रिषष्ट्यधिकानीति, उक्तं च पूज्यैः– आस्तिकमतमात्माद्या ९ नित्यानित्यात्मका नव पदार्थाः । कालनियतिस्वभावेश्वरात्मकृतकाः स्वपरसंस्थाः ॥ कालयदृच्छानियतीश्वरस्वभावात्मतश्चतुरशीतिः ।
४६०
15 नास्तिकवादिगणमतं न सन्ति सप्त स्वपरसंस्थाः ॥ अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान् । भावोत्पत्तिं सदसद्द्द्वैताऽवाच्यां च को वेत्ति ? ॥ वैनयिकमतं विनयश्चेतोवाक्कायदानतः कार्यः ।
20
सुर-नृपति-यति- ज्ञाति- स्थविरा -ऽधम- मातृ-पितृषु सदा ॥ [ ] इति । एतान्येव समवसरणानि चतुर्विंशतिदण्डके निरूपयन्नाह - नेरइयाणमित्यादि सुगमम्, नवरं नारकादिपञ्चेन्द्रियाणां समनस्कत्वाच्चत्वार्यप्येतानि सम्भवन्ति, विगलेंदियवज्जं ति एक-द्वि-त्रि-चतुरिन्द्रियाणाममनस्कत्वान्न सम्भवन्ति
।
[सू० ३४६] चत्तारि मेहा पन्नत्ता, तंजहा - गजित्ता णाममेगे णो वासित्ता, वासित्ता णाममेगे णो गज्जित्ता, एगे गज्जित्ता वि वासित्ता वि, एगे णो गज्जित्ता १. “ सती भावोत्पत्तिरिति को जानाति किं वाऽनया ज्ञातया ? एवमसती सदसती अवक्तव्या भावोत्पत्तिरिति को वेत्ति ? किं वाऽनया ज्ञातयेति । शेषविकल्पत्रयमुत्पत्त्युत्तरकालं पदार्थावयवापेक्षम्, अतोऽत्र न सम्भवतीति नोक्तम्” इति शीलाङ्काचार्यविरचितायामाचाराङ्गटीकायां प्रथमश्रुत स्कन्धे प्रथमाध्ययने प्रथमे उद्देशके ॥ २ तेनैकत्र जे१ ॥ ३. त्मनश्च जे१ विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org