SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ४५४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे निव्विगइ निब्बलोमे तवउद्धट्ठाणमेव उन्भामे । वेयावच्चाहिंडण मंडलि कप्पट्टियाहरणं ॥ [निशीथ० ५७४] ति, निर्बलं वल्लादि, अवमम् ऊनम्, उद्भ्रामो भिक्षाभ्रमणम्, आहिंडणं देशेषु, मण्डली सूत्रार्थयोः, कप्पट्ठिया श्रेष्ठिवधूरिति । चिकित्सका द्रव्यतो ज्वरादिरोगान् 5 प्रति भावतो रागादीन् प्रतीति, तत्रात्मनो ज्वरादेः कामादेर्वा चिकित्सकः प्रतिकर्तेत्यात्मचिकित्सक इति । सू० ३४३] चत्तारि पुरिसजाया पन्नत्ता, तंजहा-वणकरे णाममेगे नो वणपरिमासी, वणपरिमासी नाममेगे णो वणकरे, एगे वणकरे वि वणपरिमासी वि, एगे णो वणकरे णो वणपरिमासी । 10 चत्तारि पुरिसजाता पन्नत्ता, तंजहा-वणकरे नाममेगे णो वणसारक्खी ह [= ४] । ___ चत्तारि पुरिसजाता पन्नत्ता, तंजहा-वणकरे नामं एगे णो वणसरोही ह्व [= ४] । - [टी०] अथात्मचिकित्सकान् भेदतः सूत्रत्रयेणाह– चत्तारीत्यादि कण्ठ्यम्, नवरं 15 व्रणं देहे क्षतं स्वयं करोति रुधिरादिनिर्गालनार्थमिति व्रणकरः, नो नैव व्रणं परिमृशतीत्येवंशीलो व्रणपरिमीत्येकः, अन्यस्त्वन्यकृतं व्रणं परिमृशति, न च तत् करोतीति, एवं भावव्रणम् अतिचारलक्षणं करोति कायेन, न च तदेव परिमृशति पुनः पुनः संस्मरणेन स्पृशति । अन्यस्तु तत् परिमृशत्यभिलाषान्न च करोति कायतः संसारभयादिभिरिति । 20 व्रणं करोति न च तत् पट्टबन्धादिना संरक्षति, अन्यस्तु कृतं संरक्षति न च करोति, भावव्रणं त्वाश्रित्यातिचारं करोति न च तं सानुबन्धं भवन्तं कुशीलादिसंसर्गतन्निदानपरिहारतो रक्षत्येकः, अन्यस्तु पूर्वकृतातिचारं निदानपरिहारतो रक्षति नवं च न करोति । ___ नो नैव व्रणं संरोहयत्यौषधदानादिनेति व्रणरोही, भावव्रणापेक्षया तु नो 25 व्रणरोही प्रायश्चित्ताप्रतिपत्तेः, व्रणसंरोही पूर्वकृतातिचारप्रायश्चित्तप्रतिपत्त्या, नो १. सारोही जे० पा० ला० ॥ २. 'शतीति जे१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy