________________
३५४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे हस्तिसूत्रे भद्रादयो हस्तिविशेषा वक्ष्यमाणलक्षणा वनादिविशेषिताश्च, यदाहभद्रो मन्दो मृगश्चेति विज्ञेयास्त्रिविधा गजाः । वनप्रचार १ सारूप्य २ सत्त्वभेदोपलक्षिता: ३ ॥ [ ] इति ।
तत्र भद्रो हस्ती भद्र एव धीरत्वादिगुणयुक्तत्वात्, मन्दो मन्द एव धैर्य-वेगादिगुणेषु 5 मन्दत्वात्, मृगो मृग एव तनुत्व-भीरुत्वादिना, सङ्कीर्णः किञ्चिद् भद्रादिगुणयुक्तत्वात् सङ्कीर्ण एवेति, पुरुषोऽप्येवं भावनीयः, उत्तरसूत्राणि तु चत्वारि सदान्तिकानि भद्रादिपदानि चत्वारि तदध: क्रमेण चत्वार्येव भद्रमन:प्रभृतीनि च विन्यस्य भद्दे नामं एगे भहमणे इत्यादिना क्रमेण समवसेयानि. भ । म मृ । स नरा
'| भम मम मिम संम' जात्याकाराभ्यां प्रशस्तस्तथा भद्रं मनो यस्याथवा भद्रस्येव मनो यस्य स तथा, धीर 10 इत्यर्थः, मन्दं मन्दस्येव वा मनो यस्य स तथा, नात्यन्तधीरः, एवं मृगमना भीरुरित्यर्थः, सङ्कीर्णमना भद्रादिचित्रलक्षणोपेतमना विचित्रचित्त इत्यर्थः, पुरुषास्तु वक्ष्यमाणभद्रादिलक्षणानुसारेण प्रशस्ताप्रशस्तस्वरूपा मन्तव्या इति ।
भद्रादिलक्षणमिदम्- मह गाहा, मधुगुटिकेव क्षौद्रवटिकेव पिङ्गले पिङ्गे अक्षिणी लोचने यस्य स तथा, अनुपूर्वेण परिपाट्या सुष्ठ जात: उत्पन्नो य: सोऽनुपूर्वसुजातः, 15 स्वजात्युचितकालक्रमजातो हि बल-रूपादिगुणयुक्तो भवति स चासौ दीर्घलाङ्गुलश्च
दीर्घपुच्छ इति स तथा, अनुपूर्वेण वा स्थूल-सूक्ष्म-सूक्ष्मतरलक्षणेन सुजातं दीर्घ लाशूलं यस्य स तथेति, पुरत: अग्रभागे उदग्र: उन्नतः, तथा धीर: अक्षोभः, तथा सर्वाण्यङ्गानि सम्यक् प्रमाणलक्षणोपेतत्वेन आहितानि व्यवस्थितानि यस्य स
सर्वाङ्गसमाहितो भद्रो नाम गजविशेषो भवतीति । चल गाहा, चलं श्लथं बहलं 20 स्थूलं विषमं वलियुक्तं चर्म यस्य स तथा, स्थूलशिराः, स्थूलकेन पेएण त्ति पेचकेन पुच्छमूलेन युक्तः, स्थूलनख-दन्त-वालो हरिपिङ्गललोचन: सिंहवत् पिङ्गाक्षो मन्दो गजविशेषो भवतीति । तणुगाहा, तनुकः कृश: तनुग्रीवः तनुत्वक् तनुचर्मा तनुकदन्तनखवालः, भीरुः भयशीलः स्वभावतः, त्रस्तो भयकारणवशात् स्तब्धकर्णकरणादिलक्षणोपेतो भीत एव, उद्विग्न: कष्टविहारादावुद्वेगवान्, स्वयं त्रस्त: १. गुडिकेव जे१ पा० जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org